________________
ललितविस्तरासंस्कृतटीका अत एव 'तदादरादिभावे' तत्र-कायोत्सर्गे श्रद्धादिरूपकार्यस्य कारण (लिङ्ग ) मृतादरादेः सत्तायां ( विद्यमानतायां ) सत्यां 'अनाभोगवतोऽपि ' चित्तस्य-परिणामस्य चञ्चलत्वेन प्रकृत-प्रस्तुतस्थानवर्णादि-विषयकोपयोगस्याभावेऽपि ( किं पुनराभोगे? इत्यपि शब्दार्थः) 'एते' श्रद्धादयः सन्ति, श्रद्धादिकारणत्वेनादरादेः कायोत्सर्गे सत्त्वम् , अनाभोगवत्यपि.
अर्थात् कस्यचित् कारणस्य कार्याऽविनाभावित्वेन-आदरादिकारणसत्त्वे श्रद्धादिकार्यसत्त्वम् आदरादिकारणाभावे श्रद्धादिकार्याभावः यथा प्रदीपस्य प्रकाशेन -प्रदीपसत्वे प्रकाशसत्त्वम् प्रकाशेन सहाविनामावित्वं-प्रदीपं विना प्रकाशो न भवति. अथवा वृक्षस्य च्छायया, वृक्षं विनाच्छाया न भवति. छायया सह वृक्षस्याविनाभावित्वं विद्यते.
सारांश:=पूर्वोक्तविवेचनतः श्रद्धादेमन्दता (अल्पत्ता) वत्त्वात् श्रद्धादि ने प्रतिभाति, तथाऽपि, आदरादेः सद्भावे सति सूत्रस्योच्चारणं ( पाठं) कुर्वति पुरुषे प्रेक्षावत्तायाः क्षति नायाति.
अथान्येषां मतेन श्रद्धादेमन्दता-मध्यता-तीव्रतादि साधयति
"इक्षुरसगुडखण्डशर्करोपमाश्चित्तधर्मा" इत्यन्यैरप्यभिधानात्, ‘इक्षुरसगुडखण्डशर्करोपमाः' =इक्ष्वादिभिः पञ्चभिजनप्रतीतैरुपमा-सादृश्यं येषां ते तथा 'चित्तधर्माः' मनः परिणामा 'इति' एतस्यार्थस्य 'अन्यैरपि' तन्त्रान्तरीयैः, किं पुनरस्माभिरभिधानात्-भणनात् । प्रकृतयोरेवोपमानोपमेययो योजनामाह-'इक्षुकल्पं च' इक्षुसदृशं च तद् ' आदरादि ।।
तथा च कायोत्सर्गे, इक्षु (उपमान) सदृशं, आदरादि (उपमेयं ) वर्त्तते, तत्र कायोत्सर्गे, आदरः-उपादेय-भाव-बुद्धिः, अनादिकालीनमलिनवासनां गृहीत्वा एष जीवः, पौद्गलिक वस्तु प्रति यावद्-अभ्यस्ततावान्-वासनावासितोऽस्ति, पौद्गलिकं वस्तु, उपादेयत्वेन गणयति, तदेव प्राप्तुं प्रतिदिनं प्रयतते प्रवर्तते च, परन्तु यदैतस्य जीवस्य तथाभव्यतायाः परिपाकेन तथा कर्मक्षयोपशमेन किञ्चित् सत्यं ज्ञान प्राप्यते, तदा पौद्गलिके सर्ववस्तुनि, उपादेयभावं परित्यज्य जगत्सारभूतमुपादेयं मोक्षमार्गस्य बीजमेष कायोत्सर्ग एवास्ति, ईदृशकायोत्सर्ग प्रत्युपादेयबुद्धिः सैवाऽत्रादरो विज्ञेय इति । आदिशब्दात् 'करणे प्रीत्यादि' अग्रतो वक्ष्यमाणं करणे प्रीत्यादि स्वरूपं विज्ञेयम् । 'अतः' इक्षुकल्पादादरादेः क्रमेण-प्रकर्षपरिपाट्या, उपायवतः-तद्धेतुयुक्तस्य, आदरादिरूपहेतुजन्या, शर्करा-सिता, आदिशब्दात् पश्चानुपूर्व्या खण्डादिग्रहः, तत्समं प्रकृतसूत्रोपातं श्रद्धामेधादिगुणपञ्चकम् ।
शङ्का दृष्टान्तान्तराणि विहायेक्ष्वाद्युपमाया उपन्यासः किमर्थ ?