________________
४४
ललितविस्तरासंस्कृतटीका प्रसाध्यते, तथाहि-उत्पत्तिक्रियाकाल एव प्रथमतन्तुप्रवेशेऽसावुत्पन्नः, यदि पुनर्नोत्पन्नोऽभविष्यत् , तदा तस्याः क्रियाया वैयर्थ्यमभविष्यत् , निष्फलत्वात् , उत्पाद्योत्पादनार्था हि क्रिया भवन्ति, यथा च प्रथमे क्रियाक्षणे नासावुत्पन्नस्तथोत्तरेष्वपि क्षणेषु अनुत्पन्न एवाऽसौ प्राप्नोति, को ह्यत्तरक्षणक्रियाणामात्मनि रूपविशेषो ? येन प्रथमया नोत्पन्नस्तदुत्तराभिस्तूत्पाद्यते, अतः सर्वदेवानुत्पत्तिप्रसङ्गः दृष्टा चोत्पत्तिः, अन्त्यतन्तुप्रवेशे पटस्य दर्शनात्, अतः प्रथमतन्तुप्रवेशकाल एव किश्चिदुत्पन्नं पटस्य, यावच्चोत्पन्नं न तदुत्तरक्रिययोत्पाद्यते, यदि पुनरुत्पाद्येत तदा तदेकदेशोत्पाद एव क्रियाणां कालानां च क्षयः स्यात्, यदि हि तद्देशोत्पादननिरपेक्षा अन्याःक्रिया भवन्ति, तदोत्तरांशानुक्रमणं युज्यते नान्यथा, तदेव यथा पट उत्पद्यमान एवोत्पन्नस्तथैव बहुसमयपरिमाणत्वात् कायोत्सर्गस्यादिसमयात् प्रभृति व्युत्सृज्यमानकाय एव व्युत्सृष्टः, कथं यतो यदि हि स कायोत्सर्जनाभिमुखीभूतः कायोत्सर्गस्यादिसमय एव न व्युत्सृष्टः स्यात्तदा तस्याद्यस्य व्युत्सर्जन-समयस्य वैयर्थ्य स्यात् , तत्राव्युत्सृष्टत्वात् , यथा च तस्मिन् समये न व्युत्सृष्टः, तथा द्वितीयादिसमयेष्वपि न व्युत्सृजेत्, को हि तेषामात्मनि रूपविशेषो ? येन प्रथमसमये न व्युत्सृष्ट, उत्तरेषु व्युत्सृजतीति, अतः सर्वदैवाऽव्युत्सर्जन-प्रसङ्गः, अन्त्यसमये. कायोत्सर्गस्य दर्शनात्, अतः कायोत्सर्गादिसमय एव किञ्चिद् व्युत्सृष्टं, यश्च तस्मिन् व्युत्सृष्टः स चोत्तरेषु समयेषु न व्युत्सृजति, यदि तु तेप्वपि तदेवाद्यं व्युत्सर्जनं भवेत्तदा तस्मिन्नेव व्युत्सर्जने सर्वेषां कायव्युत्सर्जन-समयानां क्षयः स्यात् यदि हि तत्समयव्युत्सर्जन-निरपेक्षाण्यन्यसमयव्युत्सर्जनानि भवन्ति, तदोत्तरव्युत्सर्जनाऽनुक्रमणं युज्येत, नान्यथा तदेवं व्युत्सृज्यमानोऽपि कायो व्युत्सृष्टो भवतीति.)
- "कृतं पुनः क्रियमाणं उपरतक्रियं वा स्यात् 'तेनेह क्रियमाणं नियमेन कृतं, कृतं च भजनीयं, किश्चिदिह क्रियमाणं उपरतक्रियं वा भवेदि' ति। व्यवहारनयस्त्वन्यत् क्रियमाणं अन्यच्च कृतमिति मन्यते, यदाह “नारम्भे किल दृश्यते न शिवादधैं नो दृश्यते तदन्ते, यस्माद्घटादि कार्य न क्रियमाणं कृतं तस्मात् " ततोऽत्र निश्चयनयवृत्त्या, व्युत्स्रष्टुमारब्धकायस्तद्देशापेक्षया व्युत्सृष्ट एव द्रष्टव्य इति"
इत्येतन्निरूपणेनेदं वस्तु दर्शयति यत् प्रतिज्ञापूर्वकं श्रद्धादिना युक्तं यदनुष्ठान तत्सदनुष्ठानं कथ्यते.
अथ विषयमेनं शङ्कासमाधानपूर्वकं सुन्दरं विवेचयतिशङ्का श्रद्धादिविकलस्य (यस्य श्रद्धादि नास्ति तस्य एवमभिधानं) ('अरिहंत