________________
ललितविस्तरासंस्कृतटीका
॥५-४-१॥ समीपमेव सामीप्यम् । सतो वर्तमानस्य सामीप्ये भूते भविष्यति चार्थे वर्त्तमानाद् धातोः सद्वर्तमानवत् प्रत्यया वा स्युः ) अर्थात् प्राक् करोमि'-करिष्यामि इति क्रियाया आभिमुख्य-सामीप्यमुक्त-दर्शितम् ,
साम्प्रतमधुना तु 'तिष्ठामि कायोत्सर्ग' 'करोमि कायोत्सर्ग' करोमीति क्रियापदद्वारा तु-आसन्नतरत्व-आत्यन्तिक-सभीपत्वस्य प्रतिपादनं भवति- यतोऽत्यन्तसमीपत्वेन निश्चयनयविशेष-ऋजुसूत्रनयापेक्षया (ऋजुसूत्रनयस्तु बहुसरलोऽस्ति भूतभविष्यत्कालं न पश्यन् , वर्तमानकाले किमस्ति ? किं भवति ? तद्विचारयति, सर्वसामग्री लब्धा न तदा कार्यमार. व्यमिति कथं मन्येत ? सामग्री-प्राप्त्यनन्तरं कार्यमारभ्यते, यथा घटकार्य, कार्य, तदर्थ सामान्यतो मृत्तिकादण्डचक्रदवरक-कुम्भकारादिसामग्री घटनीया परन्तु, एतत्सर्वं स्थूलसामध्यन्तर्गतं, तस्मादेतत्सर्व सदपि कार्य विलम्बतो भवतीत्येवं नो लगति, ततो वयं ब्रूमो 'यत्कार्य विलम्बेन भवति' पूर्वोक्तसामग्रीतस्तत्र कारणभूता, अन्या सूक्ष्मा सामग्री वर्तते, सा कालस्वभावनियतिकर्म पुरुषादिसामग्री मिलेत्तदा तत्क्षणादेव कार्यमुत्पद्यते, किञ्च पूर्वदर्शितसामा. न्यसामग्येव यदि घटे, उपयोगन्येव मन्येत तदा तन्मृपिण्डश्चक्रे आरोपितश्च तन्मृत्पिण्डस्य तदा प्रथमेकाऽऽकृतिर्जाता. साऽऽकृतिः पूर्वदर्शितसर्वसामग्रीतो जाताऽस्ति, ततः किं साऽऽकृति घंटः कथयितुं न शक्यते परन्तु साऽऽकृतिर्भविष्यद् घटे उपयोगिन्यस्ति, एवं घटघटनाद् पूर्वीया याऽन्तिमाऽऽकृति भवति यतोऽनन्तरमेव घटो भवन्नस्ति साऽऽकृतिघंटे वास्तविकी कारणभृताऽस्ति, तदाकृतेरनन्तरं घटारम्भो भवति चैकस्मिन्नैव समये घटो भवत्येव. ) क्रियाकाल (चरमसामयिकारम्भकाल) करणकाल-कार्यस्य चरमसमयाऽवच्छिन्नकरणरूप (क्रियाकाल) स्य च कार्यस्य निष्ठाकाल ( समाप्तिकाल ) स्याऽभेदोऽस्ति. यतो निश्चयनयस्य मतमेतत् क्रियमाणं कार्य (चरमसमयावच्छेदेन वर्तमानक्रियाक्षणभाविकार्य) अवश्यं कृतमेव ,
अन्यथा-क्रियमाणकार्यस्य कृतत्वाभावे क्रियोपरमकाले क्रियाऽनारम्भकाले यथा कार्यस्याऽसमाप्तिरस्ति, तथाऽत्र कार्याऽसमाप्ति-प्रसङ्ग ( आपत्तिः ) आगमिप्यति यत उभयत्र क्रियाभावविशेषस्याऽभावोऽस्ति, ततो निश्चयनयाऽपेक्षया व्युत्सृज्यमानकाय : ( व्युत्सर्गाय यः कायारम्भः-प्रथमप्रवृत्तिः) स, देश-अंशस्यापेक्षया व्युत्सृष्ट एव मान्यः,
(भगवतीजीसूत्रटीकायां-कथं पुनस्तद्वर्त्तमानं सदतीतं भवति ? अत्रोच्यते यथा पट उत्पद्यमानकाले प्रथमतन्तुप्रवेशे उत्पद्यमान एवोत्पन्नो भवतीति, उत्पद्यमानत्वं च तस्य प्रथमतन्तुप्रवेशकालादारभ्य पट उत्पद्यते इत्येवं व्यपदेशदर्शनात्प्रसिद्धमेव, उत्पन्नत्वं तूपपत्त्या