________________
ललितविस्तरासंस्कृतटीका जीवानामेतेषां स्वकल्याणकरणात्यन्तिक-तीव्रतमोऽभिलाषो भवति. तस्मात्कारणात् ते सांसारिकप्रपञ्चतो दूरस्था एव स्थातुं प्रयतन्ते, नीतिमार्गमाश्रिताः, सत्पुरुषनिष्ठगुणपक्षपातिनः, तथा सुदेवसुगुरु-अतिबहुमानकरणसप्रयत्नास्तत्र का नवीनता ? एतेषां जीवानां सम्बन्धे, इत्येवं कथ्यते यत्तेऽध्यात्मनः प्राग्भूमिकास्थास्तेऽपुनर्बन्धकानन्तरमपि पूर्वाऽननुभूताऽध्यवसायविशेषमपूर्वकरणं प्राप्नुवन्ति, यद्यपि यथाप्रवृत्तकरणे, आत्मनो निर्मलताया अधिष्ठानं क्षिप्यते, तस्य विशिष्टविमलता तु अपूर्वकरणमध्य एव भवति, यतोऽस्मिन्करणे प्रवेशेन सहैव प्रथमसमयात् (१) स्थितिघात (२) रसघात (३) गुणश्रेणिः (४) अभिनवस्थिति बन्धात्मिकाश्चतस्रः क्रिया भवन्ति)
कथ मिति चेदुच्यते 'तत्परिपाकातिशयतस्तत्सिद्धेः श्रद्धादिरूपबीज-कारणस्य परिपाकस्य ( फलोत्पत्ति प्रति अभिमुखत्वं - परिपक्वताया ) अतिशयतः-प्रकर्षतः अपूर्वकरणरूपमहासमाधिफलस्य सिद्धिर्भवति,
एतद् श्रद्धादिपञ्चकस्य परिपाकस्वरूपम्परिपाचना त्वेषां कुतर्कप्रभवमिथ्याविकल्पव्यपोहतः श्रवणपाठप्रतिपत्तीच्छाप्रवृत्त्यादिरूपा,
एषां श्रद्धादीनां पञ्चानां परिपाचना-परिपाकः, कुतर्कप्रभवः. ( बोधरोगः शमाऽपायः श्रद्धाभङ्गोऽभिमानकृत् । कुतर्कश्चेतसो व्यक्तं भावशत्रुरनेकधा ॥ यो. स. ८७,
(१) कुतर्कः=बोधं-सम्यग्ज्ञान प्रति व्याधिरूपोऽस्ति. यतः स कुतर्को यथार्थबोधमुपहन्ति.
(२) कुतर्कः=शमापायः-शम-आत्मशान्ति प्रति अपायरूपो विघ्नरूपोऽस्ति, यतः कुतर्को मिथ्यातरङ्गान् जनयति.
(३) श्रद्धाभङ्गः=कुतर्कः, कदाग्रहः श्रद्धा भनक्ति । यतः सदागमार्थ न प्रतिपद्यते.
(४) अभिमानकृत्=कुतर्कः, अभिमानं करोति, अभिमानस्य कारको भवति, यतो मिथ्याऽभिमान-स्वमहत्तां गायति. कुतर्कश्चेतस आत्मनो व्यक्तं प्रकटरीत्याऽनेकधानेक प्रकारे र्भावशत्रु:-आन्तरारिमहानेव.)
ये मिथ्याविकल्पाः “ अविद्यासङ्गताः प्रायो विकल्पाः सर्व एव यत् । तद्योजनात्मकश्चैष कुतर्कः किमनेन तत् ॥ यो. स. ९० ।। जातिप्रायश्च सर्वोऽयं प्रतीतिफलबाधितः, हस्ती व्यापादयत्युक्तौ प्राप्ताऽप्राप्तविकल्पवत् ॥ यो. स. ९१ ॥” कल्पनामात्रात्मकास्तेषामात्यन्तिकाभावद्वारा, श्रवणपाठप्रतिपत्तीच्छा प्रवृत्त्यादिरूपा=
(१) श्रवणपरिपाकः धर्मशास्त्रस्य सप्रेम, निशमनम् , (२) पाठपरिपाकः=धर्म्यशास्त्राणां सूत्राणां मनसा सावधानेन स्वाध्यायः कर्त्तव्यः,