________________
ललितविस्तरा संस्कृतटीका
(४) परमसंवेगहेतुः = [: = एष चित्तधर्मः = परमस्य ( अत्यन्तोत्कटस्य - तीव्रतमस्य ) संवेगस्य (मोक्षविषयकाभिलाषस्य हेतु:, अनुप्रेक्षाः, अनुप्रेक्षा कारणं भवति परमसंवेग कार्य प्रति )
३७
( संवेगः=देवमानवचक्रवर्तिनां भोगाः, कामाश्च आपातकाल एव मधुरा अपि प्रान्ते दुःखस्वरूप संसारबन्धननिबन्धनमृता इति ज्ञात्वा - एकमोक्षाकाङ्क्षा संवेगः, अथवा मोक्षमार्ग प्रति अदम्यः परमसम्यगुत्साहः )
(५) परमसम्यक संवेगविषयक दृढता (मेरुवन्निश्चलता स्थिरता ) विधायी - विधायकोSनुप्रेक्षारूपश्चित्तधर्मः,
(६) उत्तरोत्तरविशेषसम्प्रत्ययाकारः = उत्तरोत्तरं ( क्रमानुसारेण - एकेकानन्तरं वर्धमानोss वर्धमानः ) विशेषः ( उत्कृष्टः - श्रेष्ठः ) सम्प्रत्ययः = सम्यक् श्रद्धायुक्तप्रति - ज्ञानस्वभाववानेषोऽनुप्रेक्षारूपश्चित्तधर्मः ।
(७) केवला लोकोन्मुखश्चित्तधर्म्मः = केवलज्ञानरूपमहाज्योतिः सम्मुखताकारी, अनुप्रेक्षारूप आत्मधर्म इति स्वरूपम्,
तत्रोदाहरणम् = यथा रत्नशोधक:- रत्नस्य शुद्धिकारकोऽनलो - वहीरत्नमभि सम्प्राप्तःअभिव्याप्तः, रत्नस्य मलं- दोषं दग्ध्वा शुद्धिमापादयति-निर्मलतां प्रकरोति तथा s [Sनुप्रेक्षानामकोs-नलोऽप्यात्मरत्नमुपसम्प्राप्तः,
कर्मरूपमलं दग्ध्वा - शोधयित्वा केवल्यम पुनर्भवमापादयति- नितरां निर्माति यतस्तथा तत्स्वभावोऽस्तीति.
श्रद्धादिपंचकं महासमाधिजनकम् = 'एतानि श्रद्धादीन्यपूर्वकरणाख्यमहासमाधिबीजानि ' एतानि - अनन्तरोक्त स्वरूपाणि श्रद्धादीनि पञ्च = श्रद्धा मेधाघ्रतिधारणाऽनुप्रेक्षारूपचित्तधर्मात्मक पञ्चकं, अपूर्वकरण ( प्रथम ) नामक महासमाधि - बीजरूपं ( अपूर्वकरण - नामक - महासमाधिरूपकार्य प्रति श्रद्धादिपञ्चकं मूलभृतबीजं. )
( अपूर्वकरणस्वरूपम् = अपूर्वकरणं तु पूर्वप्रवृत्ततथाप्रवृत्तिकरणादनन्तरं, अनिवृत्तिकरणापूर्वमुद्भवत्करणं, सामान्यविचारतो यथाऽपूर्वक रणमिदं पूर्वप्रवृत्तस्य कार्य तथाऽनिवृत्तिकरणस्येदं कारणं, अपूर्वकरणमेतत् पूर्वप्रवृत्तकरणादत्यन्तशुद्धमतिशायि, परन्तु अनिवृत्तिकरणात्तदधः कक्षं, 'एकेन्द्रियत तुरिन्द्रियपर्यन्ता जीवा एतदपूर्वकरणस्याधिकारिणो न सन्ति, अपूर्वकरणे तु पचेन्द्रियपर्याप्त संज्ञिनस्तथाऽपार्ध पुद्गलपरावर्त्ततः किञ्चिन्यूनसंसारपर्यन्तवर्तिनस्तावति कालेऽवश्यं मुक्तिगामिनः सत्ता वर्तते, ते एव विशिष्टा जीवा परिभाषितग्रन्थिभेदनेऽपूर्वकरणनामकशस्त्रस्योपयोगं विदधति. एतादृशजीवेषु, द्वेषेर्ष्या - निन्दादिदोषाणामपीयान् प्रभावः पतति, यतो