________________
ललितविस्तरासंस्कृतटीका 'तावकायं....वोसिरामि' इत्यादि शब्दैर्या कायोत्सर्गकरणप्रतिज्ञा श्रयते, ततः सर्वविरतश्चैत्यवंदनस्य तात्त्विकाधिकारी देशविरतोऽपि, अधिकारी तथा सम्यग्दृष्टिरपुनबंधकोऽपि व्यवहारमात्रेणाधिकार्यस्ति, परन्तु ये विधिबहुमानं कर्तुं न जानन्ति, ते सर्वथा चैत्यवंदनस्यानधिकारिणः, तत एतादृशानामात्मनां चैत्यवंदनं न शिक्षणीयम् ) पुरुषस्य यथोक्तनीत्यैव=
यादृशं भवेत् तादृशोपयोगस्थिरीकरणेनैव केनाऽपि कारणेनाविक्षिप्तभवनरूपनीत्या-तथा यथाभव्यं यथाविधि, अनुसरणरूपनीत्या-हीत्यैव योगस्याष्टगुणमाला निष्पद्यते, यतः पुण्योपचयपुष्टेः मूलभूतकारणमस्ति, (गुणाष्टकस्वरूपमित्थं=१-अद्वेषः सत्तत्त्वं प्रति द्वेषाभावः, २-जिज्ञासा= सत्त्वं ज्ञातुमिच्छा, ३-शुश्रषा=सत्तत्त्वविषयकोत्कटेच्छा,४-श्रवणं सत्तत्त्वविषयकश्रवणं, ५बोधः सत्तत्त्वविषयको बोधः, ६-मीमांसा=विदितसत्तत्त्वविषयकं सूक्ष्मचिन्तनं, ऊहोऽपोहः, हेयोपादेयादिविवेकः, ७–प्रतिपत्तिः=उपादेयतत्त्वग्रहणं, ८-प्रवृत्तिः=तत्त्व-सत्यरूपप्रवृत्तिः, चरणरमणता, आत्मस्वरूपे स्थिरता.)
अथाऽनुप्रेक्षारूपात्मधर्मस्य दृष्टान्तपूर्वकं सलक्षणं स्वरूपं निरूपयति
अनुप्रेक्षास्वरूपम् यथा श्रद्धया, मेधया धत्या, धारणया, कायोत्सर्गः सफलो भवति, तथा 'एवं अनुप्रेक्षया'-अहंद्गुणानां पुनः पुन श्चिन्तनेनार्थादर्हद्गुणेषु तैलधारावत् चित्तस्याखण्डप्रवाहवाहनेनैव, न प्रवृत्तिमात्रतया-केवलं क्रियारूपेण न हि, अथवाऽर्हतां गुणानां पुनः पुनश्चितनाभावपूर्वेण नहि. अपि तु भावपूर्णेन चिन्तनं अर्थादनुप्रेक्षया कायोत्सर्गों मे सफलो भवति.
अनुप्रेक्षालक्षणम्=अनुप्रेक्षा नाम तत्त्वार्थानुचिन्ता तत्त्वस्य=अर्थस्यानुचिन्तनं-पुनः पुनविचारणमथवा तत्त्वभूतस्यार्थस्यानुचिन्तन-पुनः पुनर्विचारणमनुप्रेक्षाया लक्षणम्.
अनुप्रेक्षाया वैशिष्टयं=(१) प्रस्तुतानुप्रेक्षा, चित्तधर्मः आत्मधर्मविशेषः, (२) एषोऽनुप्रेक्षारूप आत्मधर्मः, ज्ञानावरणीयकर्मणः क्षयोपशमेन जन्यः,
(३) अनुभूतः-प्रत्यक्षाद्यनुभवविषयभूतार्थ-पदार्थस्य पुनः पुनःप्रवृत्तिरूपाऽभ्यासभेदप्रकारविशिष्टः चित्तधर्मः ( पुनः पुनः संशीलनम्, ( सर्व. पृ. १२४ रामा.) स्थिती यत्नोऽभ्यासः । प्रकाशप्रवृत्तिरूपवृत्तिरहितस्य चित्तस्य स्वरूपनिष्ठः परिणामविशेषः स्थितिः । तन्निमित्तीकृत्य यत्नः पुनः पुनस्तथात्वेन चेतसि निवेशनमभ्यासः (सर्व. सं. पृ. ३६६ पाताञ्ज.) पौनः पुन्यम् । यथा समाधि-विशेषाभ्यासात् ( गौ. सू. ४-२-३६) इत्यादौ विषयान्तरानभिष्वङ्गस्याभ्यासः (गौ. वृ. ४-२-३६) संस्कारबाहुल्यमभ्यासः । दृढतरसंस्कार इति केचित् (गौ. वृ. ३-२-४२)