________________
ललितविस्तरासंस्कृतटीका
(२) उर्ण-वर्णः आत्मनो योगक्रियायां योजने, यानि प्रणवादिमन्त्राक्षराणि, उच्चारे आगच्छन्ति, तानि उर्ण-वर्णरूपाणि कथ्यन्ते, यथा 'ओं, अर्ह, सोऽहं, तत्त्वं, वीरमित्यादीनि, ' तथाऽऽत्मध्यानं, समाधिप्राणायामादेरुपयोगितादर्शकानि शास्त्राणि 'उर्ण-वर्णे ' त्यादिशब्देनोच्यन्ते,
(३) अर्थः ध्यानसमाधि-प्रभृति-प्रारम्भे, उच्चार्यमाण-मन्त्रतच्छास्त्रादीनां परमार्थरहस्यादीनि ज्ञात्वा-विभाव्य तथा तथा भावनायुक्तैर्भाव्यम् ,
(४) आलम्बनम् बाह्यप्रतिमादिकमवलम्ब्य ध्यातव्यम्, वीतरागरेम्णा परमपूज्यभावेन रावणवद्भगवद्भक्तिःकायति,
(५) निरालम्बनम् रूपिद्रव्य-प्रतिमादेरालम्बनं विना ध्यानं यत् कर्त्तव्यम् , स निरालम्बनयोगः कथ्यते, स्थानवर्ण ( उर्ण ) रूपौ द्वौ प्रकारौ कर्मयोगस्य वर्तेते, शेषप्रकारत्रयं ज्ञानयोगस्य, प्रणिधानादिः, शुभाशयेन सह भवत्यतः सर्वधर्म-व्यापारोऽतिशयशुद्धो भवति, ततस्ते योगत्वेन कथ्यमानाः सन्ति, तथाऽपि सर्वदर्शनकारैर्येन सङ्केतेन योगो ज्ञापितः स विशेषप्रकारैः स्थानकानि प्राप्तो धर्मव्यापारः स योगः कथ्यते ।
__चैत्यवन्दनोपरि योगघटना=स्वरसम्पन्मात्रादे नियमपूर्वकं शुद्धानां वर्णानां स्पष्टमुच्चारणं यथाविधि-उच्चारण वर्णयोगः,वर्णयोगस्य फलं यथार्थ पदज्ञानम् , अत एव चैत्यवंदनसूत्रोच्चारणसमये वर्णयोगे सति, सूत्राणां पदज्ञानं यथार्थ, यदा यथाविध्यासनं कृत्वा शुद्धोच्चारपूर्वकं सूत्रमुच्चार्य चैत्यवंदनं कुर्याच्च सहैव तत्सूत्राणां भावार्थस्तथा, आलम्बने स्यादुपयोगस्तदा तच्चैत्यवन्दनं पूर्वोक्तयोगचतुष्टयसम्पन्न भवति. एतादृशं चैत्यवदनं तदेव भावक्रिया, तदेव, अमृतमनुष्ठानं, अथ यथाविधि, आसने स्थित्वा, शुद्धपद्धत्या, सूत्रमुच्चार्य चैत्यवन्दनं क्रियमाणमपि तत्समये सूत्रस्याऽर्थे तथाऽऽलम्बने उपयोगो, न स्यात्तदा तच्चैत्यवंदनं, ज्ञानयोगशून्यत्वेन, द्रव्यक्रियारूपमस्ति, एतादृश्यां द्रव्यक्रियायां, अर्थालम्बनयोगस्याभावे सत्यपि तस्य तीबारुचिर्भवेत्तदा सा द्रव्यक्रिया प्रान्ते भावक्रियाद्वारा कदाचिन्मोक्षदाऽपि मता, तस्मादीदृशी-क्रिया तद्धत्वनुष्ठानत्वेनोपादेया कथिता, अथ स्थानादियोगानामभावे क्रियमाणं चैत्यवन्दनं केवलं निष्फलं, एतावदपि न परन्तु-अनिष्टफलदायकं भवति, एतावदर्थ योम्याधिकारिणामेव शिक्षा दातव्येति ।
____ यः कश्चिदर्थाऽऽलम्बनरूपाभ्यां द्वाभ्यां योगाभ्यां शुन्यो भूत्वा स्थानवर्ण योगाभ्यां शून्यो भवेत्तस्य तदनुष्ठानं कायिकचेष्टामात्रत्वेन निष्फलं भवेदथवा मृषावादत्वेन विपरीतफलदं भवे. तस्मात्तदसदनुष्ठानं वाच्यम्, एतावदर्थ योग्याधिकारिभ्यश्चैत्यवन्दनं शिक्षणीयम् , चैत्यवन्दने