________________
ललित विस्तरा संस्कृत टीका
३४
निर्धनता निधनतां प्राप्तैव तादृशी सद्भावनोद्भवति, ततः सांसारिकदुःखमात्रस्य तच्चिन्ता - मात्रस्य चात्यन्ताभावो भवति, अत एवात्मनो जिनधर्म नामक चिन्तामणिमा लम्व्यैवधृतिनामकपरमसन्तोषः प्रादुर्भवति.
अथ लक्षणस्वरूप दृष्टान्तपूर्विका धारणा कथ्यते -
यथा श्रद्धया, मेघया, धृत्या, कायोत्सर्गः सफलो भवति तथा धारणया (स्वस्वध्ये चिरस्य स्थिरन्धनेन ) कायोत्सर्गः सफलो भवति.
धारणायाःस्वरूपम्=धारणा=अधिकृतवस्त्वविस्मृतिः = अधिकृत - नमस्कारविषयभूतवस्तुनः - अर्हतो भगवतः पदार्थस्याविस्मृतिः - नित्यस्मृतिः, अपायरूपेण निश्चितस्य प्रस्तुतस्यार्हच्चैत्यपदार्थस्य मनसा सम्यग्धारणम् ( अधिकृतवस्तुनोऽविस्मृतिमत्त्वं धारणायो लक्षणम् )
( १ ) इयं धारणा चेह - स्वरूपवर्णने ज्ञानावरणीय - कर्मक्षयोपशमसमुत्था - ज्ञानावरणीय -- नामककर्मणः क्षयोपशमेन समुत्था उत्पन्ना धारणा निगद्यते,
(२) अविच्युति - वासना - स्मृतिरूपभेदत्रयवती धारणा भवति, अपायनिश्चितार्थविषयकोपयोग सातत्यमविच्युतिः, तयाऽविच्युतिरूपधारणया वासनाख्यसंस्कार आत्मनि स्मृतिहेतुत्वेन स्थाप्यते सा वासना, यः पदार्थः पूर्वमनुभृतः तस्य वासनया कालान्तरे ' स एव इत्युल्लेखरूपेण स्मरणं सा स्मृतिरुच्यते.
,
(३) प्रस्तुतवस्त्वानुपूर्बीगोचरा चित्तपरिणतिः = प्रस्तुतस्य - नमस्कार विषयभूताऽर्हद्भगवद्वस्तुसत्कानुपूर्वी (क्रम - परम्परा ) विषयिणी चित्तपरिणतिः - मानसिकः परिणामो धारणा,
जात्यमुक्ताफलमालाप्रोतकदृष्टान्तेन =जात्य ( श्रेष्ठ - समकोण - अभिजात) मुक्ताफलमालाप्रोतनक्रियाकारक - प्रोतको यथायोग्यं विधिक्रमेण, तस्य प्रोतकस्य यथा तथोपयोग ( चित्तैका - अताजन्यप्रणिधान-ध्यान )स्य दृढत्व ( समर्थत्व - कठिनत्व - निश्चलत्व ) हेतुतः, केनाऽपि कारणेन विक्षेपमप्राप्तस्य सतः, एतत् प्रोतनेन = एतन्मुक्ताफलप्रोतनेन गुणवती-सूत्रवती निप्पद्यते, अधिकृतमाला=जात्य-मुक्ताफलमाला सिद्ध्यति ।
उपनयः=एवमेतद्बलात्= ज्ञानावरणीयकर्मक्षयोपशमजन्या विच्युति - आदि भेदत्रयवत्याः, प्रकृतवस्तु—आनुपूर्वीविषयकचित्तपरिणतिरूपधारणाया बलेनाथवा यत्प्रकारावच्छिन्नं वस्तु वर्तते तत्प्रकारावच्छिन्नवस्तुविषयकोपयोग दृढता - बलेन स्थानादियोगप्रवृत्तस्य स्थानादियोगः =मोक्षेण सहयोजनात् सर्वप्रकारकोऽपि धर्मव्यापारो योगः कथ्यते स योगः पञ्चधा तथाहि
(१) स्थानं = येन स्थिरो भवति तत् स्थानमासनम्, कायोत्सर्गः, पर्यङ्कासनं - पद्मासनादिकं सकलयोगशास्त्रप्रसिद्ध विशिष्टासनप्रकारं,