________________
३३
ललितविस्तरासंस्कृतटीका
धृतेः, लक्षणस्वरूपदृष्टान्तद्वारा निरूपणम्
धृतिर्मनःप्रणिधान, विशिष्टा प्रीतिः चित्तस्यैकाग्रता (अनन्यवृत्तिता )-अन्यत्र गच्छन्मन आकृष्य कायोत्सर्गे स्थिरभाववद् भवच्चित्तं,
नमस्कारविषयभूतपदार्थे मनसो योजनं-सङ्गमनं, लगनं तदेव मनःप्रणिधानम् । तथा विशिष्टा प्रीतिः कायोत्सर्गघटितनमस्कारविषयभूतपदार्थ प्रति सर्वातिशायि प्रेम (अन्तरङ्गस्नेहविशेषो) धृतिरुच्यते, धृतिरियमप्यत्र मोहनीयकर्मणः क्षयोपशमादि (उपशम-क्षयादि ) भूता (अर्थान्मोहनीयकर्मक्षयोशमादिजन्यत्वे सति, मनःप्रणिधानसत्त्वे, सति विशिष्टप्रीतिमत्त्वं धृत्या लक्षणम् )
धृतेः स्वरूपम्=(१) इयं धृतिरत्र स्थले मोहनीय-कर्मणः क्षयेण-क्षयोपशमेन-उपशमेन जन्यते.
(२) दैन्यौत्सुक्याभ्यां रहिता धृतिः-दीनतया ( प्राप्तुमत्यन्तकामनायां सत्यामधुनैव प्राप्स्यतीति मानसतीव्रतायां सत्यामलाभजन्या दीनता, तया) औत्सुक्येन-तत्कालमेव प्राप्तौ शीघ्रातिशीघ्रता, तया, अर्थाद् वस्त्वभाव-प्रयुक्तदीनता-वस्तुप्राप्त्यत्यन्तातुरतारहिता धृतिः प्रशस्यते.
(३) धीरगम्भीराशयरूपा धृतिः निश्चलताऽगाधतासहिताऽभिप्रायरूपाधृतिः.
(४) अवन्ध्यं-अमोघं, यत्कल्याणं, श्रेयस्-तन्निबन्धन-मूलबीजकारणरूपस्य वस्तुनो या -अवाप्तिस्तदुपमयोपमिताधृतिः.
यथा दौर्गत्य ( दारिद्र्य ) उपहतस्य, ( दरिद्रस्य) चिन्तामणि-कल्पवृक्षादेरवाप्तौ विज्ञातः तच्चिन्तामण्यादेः गुणः-प्रभावो येन स विज्ञाततद्गुणः तस्य विज्ञाततद्गुणस्य ( दरिद्रस्य ) गतमिदानी दौर्गत्यं निर्धनत्वं ) इति विदिततया तस्य-दौर्गत्यस्य विघातभावः यथा स्यात्तथा भवति धृतिः मानससन्तोषरूपतृप्तिः, एवं जिनधर्म-चिन्तारत्नस्य प्राप्तावपि विदितं तज्जिनधर्ममाहात्म्य येन स विदिततन्माहात्म्यः, तस्य विदिततन्माहात्म्यस्य क इदानीं संसार इति तज्जन्मादिरूपसंसारदुःखविषयक-चिन्तारहिता धृतिः सञ्जायत एवेयं धतिर्यतः परमधते जिनधर्मरूपचिन्तारत्नं उत्तम-उत्कृष्टमालम्बनमस्ति, अर्थात् परमां धृति प्रति जिनधर्मप्राप्तिरसाधारण कारणमस्तीत्येवं कार्यकारणभावो विज्ञेयः ।
सारांशोऽयं-कर्मसम्बन्धरूपभावदारिद्रयेण दरिद्रस्यात्मनो जिनधर्मरूपमहादुर्लभचिन्तामणि -प्राप्तितः, तज्जिनधर्मरूपचिन्तारत्नस्य माहात्म्य-वैशिष्टयज्ञानानन्तर मदीया संसाररूपभाव