________________
ललितविस्तरासंस्कृतटीका
ग्रहणपटुत्वविशिष्टपरिणामरूपचित्त (आत्मा ) धर्मवत्त्वं मेधायालक्षणम् ) अयमपीह-एष मेधारूपधर्मोऽत्र.
(१) सद्ग्रन्थे (परलोकविधानविषयकवचनप्रमाणयुक्त-सम्यग्ज्ञानयुक्तसद्विधायक सद्ग्रन्थे) मुख्यत्वेन प्रवृत्तिकारणरूपफलवति, या सद्ग्रन्थे प्रवृत्ति न कारयति सा मतिर्मेधा न कथ्यते, या च सद्मन्थे प्रवृत्ति कारयति सा मतिर्मेधारूपो धर्मो निगद्यते.
(२) पापश्रुताऽवज्ञाकारी-पापश्रुतस्य (चित्तमालिन्यकारकभौमादिविषयक-मिथ्यात्व पोषकस्य) अवज्ञा-तिरस्कारं करोतीति पापश्रुताऽवज्ञाकारी मेधारूप आत्मधर्मः. ( एकोनत्रिंशत् पापश्रुतानि कथ्यते तद्यथा अष्टधा-दिव्यादीनि निमित्तशास्त्राणि, सूत्र-वृत्ति-वार्तिकरूपत्रयेण गुणितानि (८४३२४ ) तथा नाट्य-वास्तु-विद्या-धनुर्वेद-आयुर्वेदैमिलितानि (२४-५-२९) एवं एकोनत्रिंशत् पापश्रुतानि.
___ (३) गुरुविनयादिविधिवल्लभ्यः यथा गुरुविषयकविनयादिना विधिवल्लभ्यते तथा गुरुविनयादिना मेधाधर्मों लभ्यते. मेधारूपचित्तधर्म-प्राप्ति प्रति विधिवद्गुरुविनयादि, कारणमस्ति, यावदात्मनि गुरुविनयादि-सत्तायामेव मेधारूपचित्तधर्मस्य सत्त!.
(४) एतेन मेधारूपासाधारणकारणेनापकृष्टपरिणामाभावपूर्वक उत्कृष्टपरिणामरूपाध्यवसायो भवति. अथवा 'महाँस्तदुपादेयपरिणामः' इति पाठान्तरेण. 'सद्ग्रन्थ एवोपादेयोऽस्ति, असद्ग्रन्थस्तु नोपादेयः ' ईदृशः परिणामो महान्-महत्त्वशाली ( सुदृढतमः ) मेधायाः प्रभावेण भवति. अत्रातुरौषधाप्त्युपादेयतानिदर्शनेन-ज्ञेयम्, यथा प्रेक्षावदातुरस्य-बुद्धिमतो रोगिणस्तथा तथोत्तमौषधाप्तौ विशिष्टफलभव्यतया फलविशेष-भावित्वेन, औषधेतरवस्तुनोऽपोहेन, तत्र-औषधे. महान्-उपादेयभावः, अत एव ग्रहणादरः ( सादरंग्रहणं ) तथा-एवं मेधाविनो मेधासामर्थ्यात् सद्ग्रन्थे ( असंवा दिवचनविशिष्टवीतरागवचनरूपसद्ग्रन्थे एव ) उपादेयभाव-- उपादानयोग्यभावो (एष एव ग्राह्यो नान्य इति परिणामभावो) भवति, सद्ग्रन्थस्यैव ग्रहणं प्रत्यादरश्च नान्यत्र (असद्ग्रन्थग्रहणं प्रति नादरः ) यतः अस्यैव-सद्ग्रन्थस्यैव भावरूपौषधस्वमस्ति, कथमिति चेदुच्यते कर्मरूपाभ्यन्तररोगदूरीकरणाय वीतरागप्रणीतग्रन्थ एव (शास्त्रमेव) रामबाणवद्, अमोघमतुलमेवौषधमस्ति, नान्यदिति.
धृतिस्वरूपम् यथा श्रद्धया, मेधया च कायोत्सर्गः सफलो भवति. तथा धृत्या (रागाद्याकुलतां विना, शान्त्या रागादिजन्यव्याकुलताया अभावपूर्वकः) कायोत्सर्गः सफलो भवति.