________________
ललितविस्तरासंस्कृतटीका भूतार्थाभ्यासभेदः परमसंवेगहेतुस्तद्दाढर्थविधायी उत्तरोत्तरविशेषसम्प्रत्ययाकारः केवलालोकोन्मुखश्चित्तधर्मः, यथा रत्नशोधकोऽनलः रत्नमभि सम्प्राप्तः रसमलं दग्ध्वा शुद्धिमापादयति तथा अनुप्रेक्षानलोऽप्यात्मरत्नमुपसंप्राप्तः कर्ममलं दग्ध्वा कैवल्यमापादयति, तथा तत्स्वभावत्वादिति । एतानि श्रद्धादीन्यपूर्वकरणाख्यमहासमाधिबीजानि, तत्परिपाकातिशयतस्तत्सिद्धेः, परिपाचना त्वेषां कुतर्कप्रभवमिथ्याविकल्पव्यपोहतः श्रवणपाठप्रतिपत्तीच्छाप्रवृत्त्यादिरूपा, अतिशयस्त्वस्यास्तथा स्थैर्यसिद्धिलक्षणः प्रधानसत्त्वार्थहेतुरपूर्वकरणावह इति परिभावनीयं स्वयमित्थम् , एतदुच्चारणं त्वेवमेवोपधाशुद्धं सदनुष्ठानं भवतीति, एतद्वानेव चास्याधिकारीति ज्ञापनार्थ, वर्द्धमानया-वृद्धिं गच्छन्त्या नावस्थितया प्रतिपदोपस्थाय्येतत् , श्रद्धया वर्द्धमानया एवं मेधयेत्यादि, लाभक्रमादुपन्यासः श्रद्धादीनां, श्रद्धायां सत्यां मेधा तद्भावे धृतिः ततो धारणा तदन्वनुप्रेक्षा, वृद्धिरप्यनेनैव क्रमेण, एवं तिष्ठामि कायोत्सर्गमित्यनेन प्रतिपत्तिं दर्शयति,
पं०... "अविच्युत्यादिभेदवतीति, अविच्युतिस्मृतिवासनाभेदवती "श्रवणपाठप्रतिपत्तीच्छाप्रवृत्त्यादिरूपेति " श्रवणं-धर्मशास्त्राकर्णनं, पाठः-तत्सूत्रगतः, प्रतिपत्तिः-सम्यक्तदर्थप्रतीतिः इच्छा-शास्त्रोक्तानुष्ठानविषया चिन्ता प्रवृत्तिःतदनुष्ठानमादिशब्दाहिनजयसिद्धिविनियोगा दृश्याः, तत्र विघ्नजयो-जघन्यमध्यमोत्कृष्टप्रत्यूहाभिभवः,सिद्धिः-अनुष्ठेयार्थनिष्पत्तिः, विनि योगः-तस्या यथायोगं व्योपारणं ततस्ते रूपं यस्याः सा तथा ॥
टी...एवं वर्धमानया मेधया-धारणसमर्थबुद्धिपूर्वकं कायोत्सर्ग करोग्यहं, परन्तु न जडत्वेनार्थाद्गतानुगतिकतया-मुर्खतया विना, बुद्धिमजां । __ मेधायाः-सलक्षणस्वरूपम् ज्ञानावरणीयकर्मक्षयोपशमजन्यो ग्रन्थविषयकग्रहणपटुता (तीक्ष्णता) समन्वितः परिणामश्चित्तधर्म इति भावः (ज्ञानावरणीय-कर्मक्षयोपशमजन्यत्वे सति ग्रन्थ