________________
ललितविस्तरासंस्कृत टीका
ज्ञानावरणीय कर्मक्षयोपशमजः चित्तधर्म्म इति भाव:, अयमपीह सद्ग्रन्थप्रवृत्तिसारः पापश्रुतावज्ञाकारी गुरुविनयादिविधिवलभ्यो, महाँस्तदुपायेन परिणामः ।
३०
आतुरौषधाप्त्युपादेयतानिदर्शनेन - यथा प्रेक्षावदातुरस्य तथा तथोत्तमौषधात विशिष्टफलभव्यतयेतरापोहेन तत्र महानुपादेयभावो ग्रहणादरश्च एवं मेधाविनो मेघासामर्थ्यात्सदृग्रन्थ एवोपादेयभावो ग्रहणादरश्च नान्यत्र, अस्यैव भावौषधत्वादिति, एवं च धृत्या न रागाद्याकुलतया, धृतिर्मनः प्रणिधानं, विशिष्टा प्रीतिः, इयमप्यत्र मोहनीय कर्मक्षयोपशमादिभूता रहिता दैन्योत्सुक्याभ्यां धीरगम्भीराशयरूपा अवन्ध्यकल्याणनिबन्धनवस्त्वा त्युपमया, यथा- दौर्गत्योपहतस्य चिन्तामण्यायवाप्तौ विज्ञाततद्गुणस्य गतमिदानीं दौर्गत्यमिति विदिततद्विघातभावं भवति धृतिः, एवं जिनधर्म्मचिन्तारत्नप्राप्तावपि विदिततन्माहात्म्यस्य क इदानीं संसार इति तद्दुःखचिन्तारहिता सञ्जायत एवेयमुत्तमालस्वनत्वादिति, एवं धारणया-न चित्तशून्यत्वेन, धारणा-अधिकृतवस्त्वविस्मृतिः, इयं चेह ज्ञानावरणीयकर्मक्षयोपशमसमुत्था अविच्युत्यादिभेदवती प्रस्तुतवस्त्वानुपूर्वीगोचरा चित्तपरिणतिः, जात्यमुक्ताफलमाला प्रोतकदृष्टान्तेन तस्य यथा तथोपयोगढ़ाईयात्, अविक्षिप्तस्य सतो यथार्हं विधिवदेतत्प्रोतनेन गुणवती निष्पद्यते अधिकृतमाला, एवमेतद्बलात् स्थानादियोगप्रवृत्तस्य यथोक्तनीत्यैव निष्पद्यते योगगुणमाला, पुष्टिनिबन्धनत्वादिति । एवम् ' अनुप्रेक्षया' न प्रवृत्तिमात्रतया, अनुप्रेक्षा नाम तत्त्वार्थानुचिन्ता, इयमप्यत्र ज्ञानावरणीय कर्म्मक्षयोपशमसमुद्भवोऽनु