________________
ललितविस्तरासंस्कृत टीका
(न तु सुगतसुतेन परिकल्पित-संतानरूपव्यवहाराश्रय वत्सम्बन्धवत, संबंध उपचरितोऽस्ति, यथोक्तं तैः “यथा कार्पासे बीजे रक्तता आहिता, फलमपि रक्तं तावद्भवति, तथा यस्मिन्नेव सन्ताने आहिता कर्मवासना, तद्द्वासनायां कर्मवासनायाः फलं तिष्ठति ")
तत्संयोगस्यास्तित्वं (सत्ता) आदिशब्दाद् "आत्माऽस्ति स परिणामी, बद्धःसत्कर्मणा विचित्रेण, मुक्तश्च तद्वियोगादहिसाऽहिंसादि तद्धेतुः ।।१।। इत्यादि"
इत्यादि चित्रप्रावचनिकवस्तुग्रहः, तस्य- तत्संयोगाऽस्तित्वस्य सम्प्रत्ययः-सग्यश्रद्धानयुता प्रतीतिः तदाकार-स्वभाववान् ,
( वध्यमान आत्मा बन्धनं वस्तु सत्कर्मेति'-बन्धवान् , आत्मा च कर्मरूपं बन्धनं सत्यं वस्तु समस्ति, तथाहि-स्वसामर्थ्यस्यावृतत्वाद् पारवश्य प्राप्त आत्मा, तत्कर्मणा बध्यमानो ज्ञेयः, जीवः कर्म बध्नाति, जगति च स्थितानामनेकविधपरमाणूनां मध्ये यादृक्कर्म करोति. तद्योग्य-परमाणवः तं प्रत्याकृष्टास्त बध्नन्ति, कर्म सत्यमस्ति, कल्पना नास्तीत्येवं ज्ञेयं, यथा यदा वस्त्रं स्नेहलनं तदा परमाणवो बहवस्त लगन्ति, तथा यदा आत्मनि रागद्वेषादिअशुभभावस्नेहो लग्नस्तदा कर्मपरमाणव आत्मानं प्रत्याकृष्टाः सन्तो बध्नन्ति, कर्म सदस्ति, ये केचिदेवं मन्यन्ते हि कर्म वस्तु नास्ति, आत्मनो रागद्वेषादिभावा एवात्मानं बध्नन्ति, एवं कथनमसत्यमेव, पुरुषश्च निगडश्च भिन्नावपि यथा निगडेन पुरुषो बध्यते, कर्माण्यात्मानं बध्नन्ति, तत्सत्यमे व यतो यदाऽऽत्मनि रागादिवहुषितभावा उत्पद्यन्ते, तदा कर्मपरमाण्व आकृष्टाः सन्त आत्मानमभिबध्नन्ति, अपि च रागद्वेषाद्या भावाः आत्मानं वटुं न शक्नुवन्ति,
(४) चिर कालुप्यापनायी धर्मः ( श्रद्धाधर्मः ) चित्तस्य-आत्मनः कालुप्य-मालिन्यं, अपनयतीति-चित्तकालु यापनायी श्रद्धाधर्मः, अर्थाऽर्जीवादितत्त्वार्थानुसारी, समारोपविधातवृत्, कर्मफलसम्बन्धाऽस्तित्वादिसम्प्रत्ययाकारः, चित्तकालुप्यापनायी विशिष्टनिजाभिलाषरूपः श्रद्धाधर्मः कथ्यते ।
यथोदकप्रसादको मणिः, सरसि प्रक्षिप्त पक्कादिकालुप्यमपनीय स्वच्छतामापादयति, (कतकक्षोदो जलनेमल्यहेतुरपि दृष्टान्तः स्मरणीयः, 'विमलस्वामिनो वाचः कतकक्षोदसोदरा । जयन्ति त्रिजगच्चेतोजलनैर्मल्यहेतवः' । सकलाऽर्हत् १५ श्लो.) एवं श्रद्धामणिरपि चित्तसरस्युपपन्नः सर्व चित्तकालुप्यमपनीय भगवदर्हत्प्रणीत-मार्ग सम्यग् भावयतीति, मेधावर्णनम्
एवं मेधया-न जडत्वेन, मेधा ग्रन्थग्रहणपटुः परिणामः,