________________
२८
ललितविस्तरासंस्कृतटीका कारणमस्तीत्येवं कार्यकारणभावो ज्ञेयः) चित्तप्रसन्नतारूपनिजाभिलाषरूपविशिष्टपरिणामः-श्रद्धा, मिथ्यात्वमोहनीयकर्मक्षयोपशमादिजन्यत्वे सति चित्तप्रसन्नत्वं श्रद्धाया लक्षणम्, एवंविधलक्षणनिरूपणानन्तरं स्वरूपं निवेदयति, एष निजाभिलाषरूपश्रद्धारूपधर्मः कीदृशः ? इति दर्शयति
(१) अयं च श्रद्धाधर्मः-जीव ( अजीव ) आदितत्त्वरूपमर्थ, अनुसरतीत्येवं शील:जीवादितत्त्वार्थानुसारी, श्रद्धाधर्मः,
(२) समारोपविघातकृत समारोपः-असतः-अविद्यमानस्य वाऽसत्यस्य स्वभावान्तरस्यअन्यस्वभावस्य, मिथ्यात्वमोहोदयात्, तथ्ये-सत्ये वस्तुन्यध्यारोपणं-काचकमलादिरोगोपघाताद् यथा द्विचन्द्रादिविज्ञानेषु अध्यारोपण-रज्जौ सादिरूपारोपो मिथ्याज्ञानं, यत्र यन्नास्ति तत्र तस्य ज्ञान, यथा काचकमलादिरोगोपघातेन, द्विचन्द्रादिविज्ञानम्, (“ अतस्मिंस्तदध्यवसायः समारोप इति. त. न्या. वि. पृ. ५०१, सू. ७) एतल्लक्षणवतः समारोपस्य विपर्ययानध्यवसाय संशयादिभेदेन त्रयो भेदाः,
(१) विपर्ययः-विपरीतैककोटिनिश्चयो, विपर्ययः' यथा शुक्तिकायां रजतम् ,
(२) अनध्यवसायः इदं किञ्चदस्तीति केवलालोचनात्मकं ज्ञानं, यथा कस्मिंश्चिन्मार्गे गच्छतोऽन्यत्र चित्तगमनेन तृणस्पर्शी भवन्नपि मम कस्यचिद् वस्तुनः स्पर्शो जातः ? परन्तु कस्य वस्तुविशेषस्य जातः स्पर्श इति न प्रतिभासते इत्येवं ज्ञानमनध्यवसायः,
(३) संशयः साधक-बाधकप्रमाणाभावेन वस्तुन्येकस्मिन् विरुद्धधर्मकोटिद्वयस्य ज्ञानं, यथा स्थाणुर्वा पुरुषो वा, पदार्थस्य वास्तविकनिश्चयाय, साधकबाधकप्रमाणान्यावश्यकानि यथा दूरतः पुरुषाकारः पदार्थो दृष्टः, तदनन्तरं एष पुरुषो वा स्थाणुर्वेति संदेहे जाते, तन्निरासाय पुरुषत्व-साधकप्रमाणाभावे सति, तत् तथा नास्तीति प्रतीतिकारकबाधकप्रमाणस्यावश्यकता, बाधकप्रमाणाभावे कश्चिन्निर्णयो भवितुं न शक्यते, अत एवं निर्णयाभावेन यस्य पुरुषप्रयोजनमस्ति स तदर्थ न प्रवर्त्तते, तथा यस्य तत्प्रयोजनं नास्ति, स व्यक्तिविशेषः, ततो न निवर्तते, अतः प्रवृत्तिनिवृत्तिकृते स्थानं न स्यादीदृशीपरिस्थितिमध्ये स्थितं ज्ञान संशयःकथ्यते.
(एकधर्मिक-विरुद्धाविरुद्धभावाऽभावप्रकारकं ज्ञान संशयः, उभयसाधारणो यो धर्मस्तज्ज्ञानं संशयकारणम् , यथोच्चैस्तरत्वं स्थाणुपुरुषसाधारणं ज्ञात्वाऽयं स्थाणुर्नवेति संदिग्धे।)
(३) कर्मफलसम्बन्धाऽस्तित्वादिसम्प्रत्ययाकारः शुभाशुभरूपं कर्म, शुभाशुभकर्मजन्य (कार्य) शुभाशुभरूपं फलमेव, तयोः शुभाशुभकर्मफलयोः सम्बन्धः-अव्यवहितत्वेन कार्यकारणभावरूपो वास्तवः संयोगः.