________________
ललितविस्तरासंस्कृतटीका
-प्रार्थनास्वरूपस्य सारांशः भेदचतुष्टयम्
(१) अप्राप्तप्राप्तीच्छारूपप्रार्थना-यस्य बोधिलाभरूपविशिष्टधर्मस्य प्राप्ति भूत्तस्य पुरुषस्याप्राप्तवोधिलाभस्य प्राप्तिरूपयोगेच्छेति प्रथमप्रार्थनाभेदो ज्ञेयः,
(२) प्राप्तपतनप्राप्तरक्षणरूपक्षेमेच्छा प्रार्थना-यस्य बोधिलाभः प्राप्तोऽस्ति तस्य पुरुषस्य प्राप्तबोधिलाभस्य पातो मा भवतु ! एवंविधप्राप्तबोधिलाभस्य सर्वथा-भावातिशयपूर्वकरक्षण - रूपक्षेमस्य प्रार्थनेति, द्वितीयप्रार्थनाभेदः,
(३) प्राप्तभ्रष्टस्य ( प्रयत्नपूर्वक ) प्राप्तीच्छारूपप्रार्थना=यस्य बोधिलाभः पूर्व प्राप्तोभवेत् , पश्चात् क्लिष्टकर्मोदयेन पतितो भवेत्तस्य पुरुषस्य पुनबौधिलाभ-प्राप्तीच्छा, प्रार्थनेति तृतीयः प्रार्थनाप्रकारः,
(४) अक्षेपेण ( अव्यवहितत्वेन ) मोक्षफलसाधकबोधिलाभप्राप्तीच्छारूपप्रार्थना=यः क्षायिकसम्यग्दृष्टिरस्ति, यस्य क्षायिक (अप्रतिपाति) सम्यक्त्वं प्राप्तमस्ति, तस्य पुरुषस्याक्षेपेण ( आनन्तर्येण ) मोक्षफलसाधकबोधिलाभरूपविशिष्ट=बोधिलाभप्राप्तीच्छारूपप्रार्थनेति प्रार्थनायाश्चतुर्थों भेदः,
सारांशस्तु वन्दनादिकारणचतुष्टयेन यथा पुण्यानुबन्धिपुण्यफलकर्मक्षयादिरूपफलानि प्राप्यन्ते, तथा कायोत्सर्गतो मे भवतु, तथा (पुण्यफल-कर्मक्षयादिरूपफलैः) ततो बोधिलाभरूपं महाफलं भवतु तथा च बोधिलाभरूपमहाफलेन निरुपसर्गः-मोक्षरूपं परमफलं भवतु, इत्येवं विशिष्टप्रार्थनाकारको साधुश्रावको भवतः ।
-श्रद्धादि विना कृतः कायोत्सर्गः, इष्टफलसिद्धिदायको न भवत्यतः कारणतः, 'सद्धाए' इत्यत आरभ्य 'ठामि काउसगं' इति पर्यन्तेषु पदेषु कायोत्सर्गहेतुर्दर्शितोऽस्त्यतः, एतत्पदवती तृतीया हेतुसम्पत् कथ्यते
'सद्धाए मेहाए धीइए धारणाए अणुप्पेहाए वड्ढमाणीए ठामि काउसग्गति' अर्थाद वर्धमानश्रद्धादिद्वारा क्रियमाणः कायोत्सर्गों, मोक्षरूपेष्टफलसिद्धिरूपकार्य प्रति परमं कारणमस्तीत्येवं कार्यकारणभावो विज्ञेयः,
वर्धमानश्रद्धादे विवेचनम् ... (१) इष्टफलहेतुभूतवर्धमानश्रद्धया ( न बलाभियोग-बलात्कार-प्रेरणा- पराक्रमणाभिनिवेशादिना ). श्रद्धा निजोऽभिलाषः, मिथ्यात्वमोहनीयकर्मक्षयोपशमादिजन्यश्चेतसः प्रसाद इत्यर्थः, (चित्तस्यात्मनः प्रसादरूपपरमानन्दानुभवं प्रति मिथ्यात्वक्षयोपशम-उपशम-क्षयादि,