________________
ललितविस्तरासंस्कृतटीका मोक्षः, जन्माधुपसर्गाभावेन जन्यतेऽतो निरुपसर्ग-मोक्षकार्य प्रति बोधिलाभः कारणमस्ति. बोधिलाभाऽविनाभाविमोक्षः.
शङ्का साधुश्रावकयो-बोधिलाभोऽस्त्येव, तत एवाऽर्हचैत्यानां वन्दनादितो मे वोधिलाभोऽस्तु, एतादृशी कामना ( प्रार्थना ) निरर्थिकैव, यतो यद्वस्तु सिद्धमस्ति, तत् साध्यं भवितुं नार्हति, साध्यं तदेव भवति यन्न सिद्धम् , तथा च साधुश्रावकयोर्बोधिलाभः सिद्धएवार्थात् साधुश्रावकयो|धिलाभविषयक-प्रार्थनागर्भितं 'बोहिलाभवत्तियाए ' इति पदं कथं सार्थकं भवेत् ! तथा बोधिलाभरूपनिमित्तजन्यनिरुपसर्गों मोक्षोऽपि कथमभिलषणीयो भवेत् ? यतो बोधिलास्तोःवयं मोक्षलाभो भाव्येव, अतो 'बोहिलाभवत्तियाए' 'निरुवसग्गवत्तियाए' इति पदद्वयस्योपन्यासः किमर्थकः ?
समाधानम् साधुश्रावकयोः क्लिष्ट ( सानुबन्ध-निकाचित ) कर्मण उदयवशेन बोधिलाभस्य प्रतिपातसम्भवः, अर्थाद् बोधिलाभस्य पतन प्रति क्लिष्टकर्मोदयः कारणम् , अतोऽत्रामुत्रापि साधुश्रावकयोः क्लिष्टकर्मोदये बोधिलाभस्य पतनसम्भवेन बोधिलाभोऽसिद्धोऽस्ति, अतोऽसिद्धोऽस्ति, अतस तस्य साध्यत्वमस्ति, अतो बोधिलाभस्यार्थित्वं ( अभिलाषः प्रार्थना ) साधुश्रावकयोर्मध्येऽध्यास्ते, तथा निरुपम्!-मोक्षोऽपि बोधिलाभाधीनोऽस्ति. बोधिलाभसत्तायां मोक्ष-सत्ताऽस्ति, तस्माद्भावस्यातिशयेन ( सर्वथा सर्वोत्कृष्टभावपूर्वकं ) बोधिलाभस्य क्षेमरक्षणमनिवार्यमावश्यकम् , एनं हेतुं लक्ष्यीकृत्य एतत्पदद्वयस्योपन्यासः ( रचना ) कृतोऽस्ति, अर्थादेतत्पदद्वयं साधुश्रावकयोः सार्थक्यवत्सफलमेव । . शङ्का-यद्येवं तर्हि, अप्राप्तस्य प्राप्तिविषये एव प्रार्थना भवति, ततोऽत्र प्रार्थनास्वरूपं कथं घटेत ?
समाधानम् अत्राप्राप्तप्राप्तीच्छारूपैव प्रार्थनाऽस्तीति, परन्तु बोधिलाभः पूर्व प्राप्तोऽपि, पश्चात् क्लिष्टकर्मोदयेन गतोऽपि (बोधिलाभाद्रष्टोऽपि ) तस्य प्राप्तभ्रष्टस्यापि पुनर्वाधिलाभः, प्रकृष्ट-प्रयत्नेन प्राप्यते, तस्मात् केवलाप्राप्तप्राप्तीच्छारूपैव प्रार्थनेति न, परन्तु पूर्व प्राप्तस्यपश्चाद् भ्रष्टस्यापि पुनः प्राप्तीच्छाऽपि प्रार्थना ज्ञेया.
शङ्का क्षायिकसम्यग्दृष्टेः किमेतत्पदद्वयस्योच्चारणमावश्यकमथवा न ? • समाधानम् क्षायिकसम्यग्दृष्टिमतोः साधुश्रावकयोः क्षायिक ( सम्यगृदृष्टयपेक्षया ) अपि-अक्षेपेण (अव्यवहितत्वेन) मोक्षफलसाधकबोधिलाभ ( यद्बोधिाभाऽव्यवहितोत्तरक्षणजायमान-मोक्षो भवति, तद्बोधिलाभ) विषयकप्रार्थनायाः सत्त्वात् : वोहिलाभवत्तियाए' 'निरुवसग्गवत्तियाए' इतिपदद्वयं क्षायिकसम्यग्दृष्टौ यथार्थ घटते तस्मात्तदपेक्षयैवमुपन्यासः,