________________
ललितविस्तरासंस्कृत टीका सम्प्रत्याकारश्चित्तकालुष्यापनायी धर्मः, यथोदकप्रसादको मणिः सरसि प्रक्षिप्तः पङ्कादिकालुष्यमपनीयाच्छतामापादयति, एवं श्रद्धामणिरपि चित्तसरस्युपपन्नः सर्व चित्तकालुष्यमपनीय भगवदर्हत्प्रणीतमार्ग सम्यग्भावयतीति,
पं... " श्रद्धासमारोपेत्यादि" समारोपविघातकृत्-समारोपो नामासतः स्वभावान्तरस्य मिथ्यात्वमोहोदयात्तथ्ये वस्तुन्यध्यारोपणं काचकामलाद्युपघातात् द्विचन्द्रादिविज्ञानेष्विवेति, तद्विघातकृत्-तद्विनाशकारी “कर्मफलसम्बन्धास्तित्व( आदि ) सम्प्रत्ययाकार इति" कर्मशुभाशुभलक्षणं फलं च तत्कार्य तथाविधमेव तयोः सम्बन्ध-आनन्तर्येण का कारणभावलक्षणो वास्तवः संयोगो न तु सुगतसुतपरिकल्पितसन्तानव्यवहाराश्रय इवोपचरितो, यथोक्तं तैः-“यस्मिनेव हि सन्ताने, आहिता कर्मवासना । फलं तत्रैव सन्धत्ते, कार्पासे रक्तता यथा ॥ १॥" तस्यास्तित्वं-सद्भावः, आदिशद्वाद् 'आत्माऽस्ति स परिणामी, बद्धः सत्कर्मणा विचित्रेण । मुक्तश्च तद्वियोगाद्धिंसाऽहिंसादि तद्वतुः ॥ १॥ इत्यादि,' इत्यादिचित्रप्रावचनिक वस्तुग्रहः, तस्य सम्प्रत्ययः-सम्यक्श्रद्धानयुता प्रतीतिः स आकारः-स्वभावो यस्य स तथा ।
____टी.....तथा 'सम्माणवत्तियाए 'त्ति. सम्मानप्रत्ययं-सम्माननिमित्तं, स्तुत्यादिगुणोन्नतिकरणं सम्मानः, तथा मानसप्रीतिविशेष इत्यन्ये ।
अर्थात्तथा-वन्दनादिवत् 'अर्हच्चैत्यानां सम्मानेन यथा कर्मक्षयादिरूपं फलं भवेत्तथा कर्मक्षयादिरूपं फलं मे कायोत्सर्गतो भवतु, एतादृशी प्रार्थना ( आशंसा ) साधुश्रावकयोर्भवति.
स्तुतिआदि (आदिना काव्यगीतिप्रशंसास्तोत्रस्तवनपूजादि) द्वारा गुणानां-सद्गुणानां, उन्नतिकरणं-उत्कीर्तनं ( भगवतां गुणानामुच्चैर्गानं-मननादिकीर्तनं ) सम्मानः, मानसगत-विशिष्टप्रीतिरूपोचितविनयप्रतिपत्तिरूपः सम्मानः, इत्यन्ये.
अथ वन्दनपूजनसत्काराः किं निमित्तं-कस्मै हेतवे वा फलाय ? ततः कथयति. 'बोहिलाभवत्तियाए ' बोधिलाभप्रत्ययं-बोधिलाभनिमित्तं (निमित्तमुद्देश्यम् यथा तस्यागमनकारणम्, इत्यादौ कारणमुद्देश्यम् । प्रयोजनं फलं वेत्यर्थः ) अर्थाद् वन्दनादिभिश्चतुभिः किं फलं प्राप्यते ! तत्प्रत्युत्तरं दीयते, वन्दनादिचतुष्टयेन बोधिलाभरूपमहाफल प्राप्यतेऽर्थाद् बोधिलाभरूपमहाफलं प्रति वन्दनादिचतुष्कं कारणम् , बोधिलाभः-जिनप्रणीतधर्म(जैनधर्म )प्राप्तिबर्बोधिलाभोऽभिधीयते. अथ वन्दनादिचतुष्ककारणजन्य (कार्य)भूतबोधिलाभ एव किं निमित्तं ? तत्प्रत्युत्तरे ज्ञापयति, 'निरुवसागवत्तिआए' निरुपसर्गनिमित्तं, अर्थाद् बोधिलाभेन निरुपसर्गों