________________
ललित विस्तरा संस्कृत टीका
३९
(३) प्रतिपत्तिपरिपाकः = धर्म्यशास्त्राणामर्थानां सम्यग् संवादिनी प्रतीतिः (निश्चयात्मक श्रद्धा ) (४) इच्छा परिपाकः = शास्त्रविहितानुष्ठानविधिविधानात्मकतीव्रतमाभिलाषः रुचिगुणरूपः )
( अद्वेष
(५) प्रवृत्तिपरिपाकः = शास्त्रविहितानुष्ठानस्य विधिबहुमानपूर्वकम खिन्नतयाऽऽचरणम् (अखेदTussharart:) आदिशद्वतोऽत्र विघ्नविजयादिरूपपरिपाकस्य ग्रहणम् तथाहि =
(६) विघ्नविजयरूपपरिपाकः = धर्मेऽन्तरायकारकाणां जघन्यमध्यमोत्कृष्ट विघ्नानां निराकरणम्, मार्गे गच्छतां यथा कण्टकज्वरादिदिङमोहा विघ्नभूता भवन्ति तथा मुक्तयेऽनुतिष्ठत कण्टकविघ्नसमाः परिषहाः, ज्वरविघ्नसमा शारीरा 'रोगाश्च' दिमोह - समा मिथ्यात्वाद्युदयरूपाः, तेषां क्रमेण सिद्धासनाद्यासनेन, हितमिताहारादिना, गुरुसेवादिना जयो भवति,
(७) सिद्धिरूपपरिपाकः = अनुष्ठेयार्थ ( धर्म पुरुषार्थ ) स्य सिद्धिर्विजयः, अथवाऽधिकृताऽहिंसादिधर्मस्थानस्य सिद्धि: - प्राप्तिः यत्र गुणाधिकान् प्रति विनयः, गुणहीनान् प्रति दया, मध्यम - गुणवतः प्रत्युपकारस्य भावना प्रधानतया वर्त्तते,
(८) विनियोगरूपपरिपाकः = कर्त्तव्यार्थसिद्धिर्यथायोगं विनियोज्याऽथवा स्वप्राप्तधर्मस्थानं यथायोग्यमुपायेन, अन्येषु जीवेषु प्रापणीयम्, अतोऽनेक जन्मजन्मांतरं यावत् प्रकृष्टधर्मस्थानस्यप्राप्तिपरम्परा चलन्ती भवेत्,
(९) अवंचकत्रयरूपपरिपाकः - सत्यसाधुस्वरूप - सत्पुरूप - सद्गुरोर्योगः स योगा वंचकः, जातुचिन्न वञ्चयते, अमोघमवश्यम विसंवादी भवति, पश्चाच्च सत्पुरुषं सत्पुरुषत्वेन परिचित्य, या वन्दननमस्कार—वैयावृत्त्यादि - क्रियाः क्रियन्ते स योगः क्रियाऽवञ्चकः, सा क्रिया कदाचिन्न वञ्चयतेऽन्यं, अवश्यं धर्मफलदायिनी तथा चैवं सत्पुरुषं सद्गुरुत्वेन परिचित्य - ज्ञात्वा तं प्रतीत्य या वन्दनादिकाः क्रियाः कृतास्तासां फलमपि जातुचित् न वञ्चयते, अवश्यममोघं फलमायात्येव स योगः फलावञ्चको ज्ञेयः,
श्रद्धादि - परिपाकातिशयस्वरूपवर्णनम् -
श्रद्धादि पञ्चकस्य ( १ ) श्रवणादिपरिपाकस्यातिशयः तथा स्थैर्यसिद्धिरूपलक्षणं,
(२) श्रद्धादि - पञ्चकस्य श्रवणादिपरिपाकस्याऽतिशयः प्रधानपुरुषार्थस्य - मोक्षपुरुषार्थस्य हेतुः - कारणमस्ति,
(३)
श्रद्धादिपञ्चकस्य श्रवणादिपरिपाकस्याऽतिशयः, अपूर्वकरणरूपमहासमाधिपरमतत्त्व वह इति परिभावनीयं स्वयमित्थम्,