________________
ललितविस्तरासंस्कृत टीका
3
समाधानं = असदारम्भनिवृत्तिरूपद्रव्यस्तवो भावस्तवत्वेन न मन्यते कथमिति चेत्कथ्यते, असदारम्भनिवृत्तिरूपद्रव्यस्तवस्य, औचित्यप्रवृत्तिरूपत्वेऽपि = श्रावकावस्थायोग्यव्यापारस्वभावता यामपि ( औचित्य प्रवृत्तिरूपत्वं यत्र नास्ति तत्र कः प्रश्नः ) अल्पभावत्वं ( भावस्तवापेक्षया तुच्छशुभपरिणामत्वं ) विद्यतेऽतः पूजासत्काररूपो द्रव्यस्तवो द्रव्यस्तवत्वेनाऽङ्गीक्रियते, भावस्तवेन नाङ्गीक्रियते एव.
२२
शङ्का = यदि द्रव्यस्तवस्याऽल्पभावत्वं स्यात्तदा गृहिणामेष द्रव्यस्तवः, अकिंचित्करः ( न किञ्चित् करोति, क्रियाशुन्यः, असमर्थः ) कथं न ?
समाधानम्=अयं - द्रव्यस्तवस्तु, गुणाय - उपकारायैव कूपोदाहरणेन, इह चैवं साधनप्रयोगो, गुणकरं ( गुणाय ) अधिकारिणः किञ्चित्सदोषमपि पूजादि, विशिष्टशुभभावहेतुत्वात्, यद् विशिष्ट - शुभभावहेतुभूतं, तद्गुणकरं दृष्टं यथा कूपखननं. विशिष्टशुभभावहेतुश्च यतनया पूजादिः, ततो गुणकरमिति, ( पक्षः ) अधिकारिणः किञ्चित् सदोषमपि पूजादि, ( साध्यं ) गुणकरत्वं, (हेतु:) विशिष्टशुभभावहेतु:, ( व्याप्तिः) यद्यद् विशिष्टशुभभावहेतुः तत्तद्गुणकरम् यत्र यत्र विशिष्टशुभभावहेतुत्वं तत्र तत्र गुणकरत्वं (दृष्टान्तः) यथा कूपखननम्,
•
( उपनयः) गुणकरत्व - व्याप्य - विशिष्टशुभभावहेतुत्ववत्, यतनया पूजादि ( साध्यव्याप्य हेतुमान् पक्षः ) ( निगमनं ) गुणकरत्ववत् ( गुणकरं ) यतनया पूजादि ( साध्यवान् पक्षः ) कूप खननपक्षे शुभभावस्तृष्णा दिव्युदासेनानन्दाद्यवाप्तिरिति यथा कूपखननं श्रमतृष्णा - कर्दमोपलेपादिदोषदुष्टमपि जलोत्पत्तावनन्तरोक्त - दोषानपोह्य स्वोपकाराय परोपकाराय वा यथाकालं भवति, एवं पूजादिकमप्यारम्भदोषम पोह्य शुभाध्यवसायोत्पादनेनाऽशुभकर्मनिर्ज्जरण - पुण्यानुबंधिपुण्यन्धकारणं भवतीति,
( हिंसाया ज्ञानयोगेन, सम्यग्दृष्टेर्महात्मनः । तप्तलोह - पदन्यास - तुल्याया नानुबन्धनम् ॥ ४७ ॥ सतामस्याश्च कस्याश्चित् यतनाभक्तिशालिनां, अनुबंधो ह्यहिंसाया जिनपूजादिकर्मणि ॥ ४८ ॥
अध्यात्मसारे सम्यक्तवाधिकारे, " स्थेयो वायुचलेन निर्वृतिकरं, निर्वाण निर्धातिना, स्वायत्तं बहुनान सुबहु स्वपेन सारं परं । निःसारेण धनेन पुष्यममलं कृत्वा जिनाभ्यर्चनं यो गृह्णाति वणिक् स एव निपुणो वाणिज्य - कर्मण्यलम् "
“परिणामविशेषोऽपि शुभफलो, यत्रानन्योपायत्वेन यतनया प्रकृष्टप्रतनुचैतन्यानां पृथिव्यादिजीवानां वधेऽपि स्वल्पपुण्यव्ययेनापरिमितसुकृत सम्प्राप्तिः
91