________________
ललितविस्तरासंस्कृतटीका
२१ इन्द्रियार्थ-विषयतया, असुन्दरस्य-अप्रशस्तस्यारम्भस्य ततो वा . जिनपूजादिकाले निवृत्तिनिबन्धनबीजं ज्ञेयम्, अर्थादाज्ञाऽमृतयुक्त पूजासत्काररूपद्रव्यस्तयो ( सहारम्भरूपः ) भवेत्तर्हि, एवासद् (अशुभ) आरम्भानिवृत्तिर्भवति, आज्ञाऽमृतयुक्तद्रव्यस्तवाभावेऽसद् आस्भनिवृत्तेरभाव इति कार्यकारणभावः ।
अन्यथा-आज्ञामृतयुक्तौ पूजासत्कारौ विमुच्य, असदारम्भनिवृत्तेरभावसत्तायां, अन्येन प्रकारेणापि, असदारम्भनिवृत्ति-प्राप्त्याऽतिप्रसङ्गो भविष्यतीति. ( अतिप्रसङ्गो नामातिव्याप्तिः, प्रकृतादन्यत्र प्रसञ्जन चापादनम् । यथाऽत्र घटः स्यातर्हि-उपलभ्येतेति, आहार्यारोपः। यथा यदि पर्वतो निर्वह्निः-स्यात्तर्हि निधूमः स्यात् )
औचित्यस्यैव विशेषतः पुनर्भावना तथाहीति-जिनपूजासत्कारौ द्रव्यस्तव एव, स च द्रव्यस्तवो, भावस्तवाझंभावस्तवस्त्र -शुद्ध-साधुभावस्य (निश्चयतः शुद्ध-साधुतायाः) निबन्धनत्वबीजरूपकारणत्वेनेष्टो-अभिमतः ।
अर्थाद् भावस्तवरूपकार्य प्रति द्रव्यस्तवो मुख्यं-फलोपधायकं कारणमस्ति. “ कारणं हि तद्भवति यस्मिन् सति यद्भवति, यस्मिंश्चासति यन्न भवति (न्या. वा. १ पृ. २४) कार्योत्पादकं, कारणं तावद् द्विविधं, मुख्य, अमुख्यं च, तत्र घटादिकं प्रति मृदादिकं कपालादिकं वा मुख्य, मुख्यभिन्नं त्वमुख्यं । तच्च सहकारिकारणमुच्यते, मुख्यत्वे फलोपधायकत्वं फलनिष्पादकत्वम् ।”
द्रव्यस्तवे सति भावस्तवो जायते. द्रव्यरतवाभावे भावस्तवाभावोऽस्ति. यो भावस्तवस्य मुख्य कारणं द्रव्यस्तवो नास्ति, तस्य द्रव्यस्तवस्याप्रधानत्वेन फलाजनकत्वेनादरणीयत्वाभावः, कथमिति चेत् कथ्यते. अप्रधानद्रव्यस्तवस्याभव्येषु-मुक्तिगमनायोग्येषु-जीवेषु सत्ताऽस्ति. कि पुनरितरेषु मिथ्यात्विषु इत्यपि-शब्दार्थः, किंच ततः काचित् , शुद्धनिथतारूपभावस्तवस्य प्रकृतफलस्य सिद्धि न भवति,
अन्यस्य भावस्तवरूपफलजनकद्रव्यस्तवभिन्नद्रव्यस्तवस्य अप्रधानता-भावस्तवरूपफलस्याकारणता तस्या हेतुत्वेन. तथा च भावस्तवरूपफलजनकप्रधान-द्रव्यस्तवस्य फलोपधायकहेतुत्वेन, सर्वज्ञवचनरूपाऽऽज्ञामृतमेवासदारम्भनिवृत्तेरेवात्रैव कारणत्वेन, पुनरन्यो, बहुलोक प्रसिद्धः, अयं-शास्त्रविहितो द्रव्यस्तवः स्याद्-भवेद् ,
शङ्का-एषोऽसदारम्भनिवृत्तिरूपः शास्त्रविहितो द्रव्यस्तवः, औचित्यप्रवृत्तिरूपत्वेन साधुधर्मवद् भावस्तवः कथं न मन्यते !