________________
२०
ललितविस्तरासंस्कृतटीका काचित्प्रकृति (त) सिद्धिः, " अतः" अन्यस्य अप्राधानन्याखेतोः “आशया" आप्तोपदेशेन " असदारम्भनिवृत्तिरूप एव" असदारम्भाद्-उक्तरूपात्तस्य वा या निवृत्तिः-उपरमः तद्रूप एव, न पुनरन्यो बहुलोकप्रसिद्धः " अयं" शास्त्रविहितो द्रव्यस्तवः " स्याद् " भवेद्, आहकथमसौ न भावस्तवः ?, औचित्यप्रवृत्तिरूपत्वात् , साधुधर्मवदित्याशङ्क्याह-" औचित्यप्रवृत्तिरूपत्वेऽपि" श्रावकावस्थायोग्यव्यापारस्वभावतायामपि, किं पुनः तद्भावे " अल्पभाव त्वात्" तुच्छशुभपरिणामत्वात् , “ द्रव्यस्तवः” पूजासत्कारौ, एवं तर्हि अल्पभावत्वादेवाकिञ्चित्करोऽयं गृहिणामित्याशङ्क्याह-" गुणाय च" उपकाराय च, " अयं" द्रव्यस्तवः, कथमित्याह-"कूपोदाहरणेन" अवटज्ञातेन, इह चैवं साधनप्रयोगो-गुणकरमधिकारिणः किश्चित्सदोषमपि पूजादि, विशिष्टशुभभावहेतुत्वात् , यद् विशिष्टशुभभावहेतुभूतं तद्गुणकरं दृष्टं, यथा कूपखनन, विशिष्टशुभभावहेतुश्च यतनया पूजादि, ततो गुणकरमिति, कूपखननपक्षे शुभभावस्तृष्णादिव्युदासेनानन्दाद्यवाप्तिरिति; इदमुक्तं भवति-यथा कूपखननं श्रमतृष्णाकर्दमोपलेपादिदोषदुष्टमपि जलोत्पत्तावनन्तरोक्तदोषानपोह्य स्वोपकराय परोपकाराय वा यथाकालं भवति, एवं पूजादिकमप्यारम्भदोषमपोह्य शुभाध्यवसायोत्पादनेनाशुभकर्मनि रणपुण्चबन्धकारणं भवतीति, दृष्टान्तशुद्धयर्थमाह
" न च” नैव " एतदपि" कूपोदाहरणमपि “ अनीदृशम्" उदाहरणीयबहुगुणद्रव्य. स्तवविसदृशं यथाकथञ्चित् खननप्रवृत्त्या “इष्टफलसिद्धये" इष्टफलम्-आरम्भिणां द्रव्यस्तवस्य बहुगुणज्ञापन तत्सिद्धये भवतीति, दार्टान्तिकेन वैधाद्, यथा तु स्यात्तथाऽऽह-किन्तु " आज्ञामृतयुक्तमेव" आ वामृतं परमस्वास्थ्यकारित्वादाज्ञामृतं तदुक्तमेव-तत्सम्बन्धमेव; तथाहि-महत्यां पिपासाद्यापदि कूपखननात्सुखतरान्योपायेन विमलजलासम्भवे निश्चितस्वादुशीतस्वच्छजलायां भूमौ अन्योपायपरिहारेण कूपखननमुचितं, तस्यैव तदानी बहुगुणत्वाद्, इत्थमेव च खातशास्त्रकाराज्ञा, कुत एतदित्याह-" स्थाने" द्रव्यस्तवादौ कूपखननादिके च उपकारिणि "विधिप्रवृत्तः" औचित्यप्रवृत्तेरन्यथा ततोऽपि अपायभावात् ।।
टी...शङ्का आरम्भविशेषेऽपि कथमनयोः पूजासत्कारयोः सदारम्भवत्वम् ?
समाधानम्-गृहिणः श्रावकस्य पूजासत्काररूपो द्रव्यस्तषः कर्तव्योऽस्ति, यत औचित्यं ( निजावस्थायाआनुरूप्यं ) योग्यतामनुलक्ष्याथवौचित्यरूपाऽऽज्ञैव "जिनभवनं जिनबिम्ब " (प्रशमरतौ) मित्याद्याप्तोपदेशरूपा, अमृतं-अजरामरभावकारित्वात् , तेन योगोऽस्ति, तथा"जिनभवनबिम्बठावणा जिणपूआई सुत्तओ। विहिणा दव्वत्थओत्ति नेय भावत्थव कारणत्तेण ॥"
शक्का-इत्थमाज्ञाऽपि किं निबन्धनम् ! समाधानम् =द्रव्यस्तवविषयकाऽऽज्ञायां, असदारम्भ-निवृत्तिमूलकारणमस्ति. अर्थादसत