________________
ललितविस्तरासंस्कृतटीका
समाधानं द्रव्यस्तवन-पूजादिना, भावस्तवः-चारित्रप्राप्तिर्भवति अतः द्रव्यस्तवघटकद्रव्यशब्दोऽत्राप्रधानवाचको नास्ति, अपि तु कारणवाचको ज्ञेयः, अतो द्रव्यस्तवस्य भावस्तवकारणत्वेनाऽवश्यं द्रव्यस्तवो विधातव्य एवाधिकारिणा.
अथ शङ्का समाधानदृष्टान्तपूर्वक श्रावकस्य पूजासत्कार-विषयकोऽधिकारः सदा नियतोऽस्तीति विषय-स्पष्टीकरणम्
औचित्याज्ञाऽमृतयोगात् , असदारम्भनिवृत्तः, अन्यथा तदयोगादतिप्रसङ्गादिति, तथाहि-द्रव्यस्तव एवैतौ, स च भाव. स्तवाङ्गमिष्टः,
तदन्यस्याप्रधानत्वात् , तस्याभव्येष्वपि भावात् , अतः आज्ञयाऽसदारम्भनिवृत्तिरूप एवायं स्यात् , औचित्यप्रवृत्तिरूपत्वेऽप्यल्पभावत्वाद् द्रव्यस्तवः, गुणाय चायं कूपोदाहरणेन, ___न चैतदप्यनीदृशं इष्टफलसिद्धये, किं त्वाज्ञामृतयुक्तमेव, स्थाने विधिप्रवृत्तेरिति सम्यगालोचनोयमेतत् ॥ तदेवमनयोः साधुश्रावकावेव विषय इत्यलं प्रसङ्गेन ।
पं..."आज्ञामृतयोगाद्" आजैव-"जिनभवनं जिनबिम्व" मित्याद्याप्तोपदेशरूपाऽमृतम्अजरामरभावकारित्वात् तेन योगाद्, आज्ञापि किंनिबन्धनमित्थमित्याशकचाह-" असदारम्भनिवृत्तेः" असत इन्द्रियार्थविषयतया असुन्दरस्यारम्भस्य ततो वा जिनपूजादिकाले निवृत्तः, ननु तन्निवृत्तिरन्यथापि भविष्यतीत्याशङ्कयाह-" अन्यथा" आज्ञामृतयुक्तौ पूजासत्कारौ विमुच्य “तदयोगाद् ” असुन्दरारम्भनिवृत्तेरयोगाद्, विपक्षे बाधामाह-" अतिप्रसङ्गात्" प्रकारान्तरेणाप्यसदारम्भनिवृत्त्यभ्युपगमे युतरमणान्दोलनादावपि तत्प्राप्त्याऽतिप्रसङ्गादिति, " इतिः” वाक्यसमाप्तौ, औचित्यमेव पुनर्विशेषतो भावयन्नाह-तथाहि-द्रव्यस्तवः “ एतौ” पूजासत्कारौ, ततः किमित्याह-" स च" द्रव्यस्तवो “भावम्तवाङ्ग" शुद्धसाधुभावनिबन्धनम् " इष्टः” अमिमतः, कुत इत्याह
" तदन्यस्य" भावस्तवानङ्गस्य “ अप्रधानत्वाद् ” अनादरणीयत्वात् , कुत इत्याह" तस्य" अप्रधानस्य "अभव्येष्वपि । किं पुनरितरेषु "भावात्" सत्त्वात् , न च ततः