________________
ललितविस्तरा संस्कृत टीका
66
न च जिनायतनविधापनादौ पृथिव्यादिवधेऽपि न गुणः । तथाहि - तद्दर्शनाद् गुणानुरागितया भव्यानां बोधिलाभः, पूजातिशय- विलोकनादिना च मनःप्रसादः, ततः समाधिः, ततश्च क्रमेण निःश्रेयसाप्तिरिति " स्याद्वादमंजरी )
२३
दृष्टान्तशुद्धिकते कथयति
एतत्कू पोदाहरणमपि, आरम्भिणां द्रव्यस्तवस्य बहुगुणज्ञापनरूपेष्टफलसिद्धये यथाकथञ्चित् खननप्रवृत्त्या दाष्टन्तिक - बहुगुणसम्पन्न - द्रव्यस्तवेन सह सदृशं नास्तीति - नापितु सदृशमेव . ( वादिप्रतिवादिनो र्यस्मिन्नर्थे बुद्धिसाम्यं स दृष्टान्तः, तेन युतः ठञ ) यत्र दृष्टांतो लगति सः, दृष्टान्तवदुपमेयं,
(दान्तिकत्वम् - दृष्टान्तप्रयुक्तोपमेयत्वम् । यथा चन्द्रवन्मुखमित्यादौ मुखस्यदान्तिक - त्वम् तथाऽत्रापि कूपखननवद् द्रव्यस्तवः इति अत्र द्रव्यस्तवस्य दान्तिक त्वम् - बोध्यम्. )
दान्तिकेनारम्भिणां बहुगुणद्रव्यस्तवेन सह यथा साम्यं न भवतीति विषयं - वैधर्म्य दर्शयति-परमात्मिक – स्वास्थ्यकारित्वेन जिनवचनरूपाज्ञाऽमृतेन सहसम्बन्धवान् बहुगुणसम्पन्नद्रव्यस्तवोऽस्त्यर्थादेतदाज्ञाऽमृतसम्बन्धापेक्षया कूपोदाहरणेन सहद्रव्यस्तवस्य वैधर्म्यमस्ति .
तथाहि--महुध्यां पिपासाद्यापदि कूपखननात्सुखतरान्योपायेन विमलजलासम्भवे निश्चित - स्वादुशीतस्वच्छजलायां भूमौ अन्योपाय- परिहारेण कूपखननमुचितं, तस्यैव तदानीं बहुगुणत्वात् इत्थमेव च खातशास्त्रकाराज्ञा, तथाचारम्भि - श्रावकस्य पूजा सत्काररूपद्रव्यस्तवं विना, उपायान्तरेण बोधिबीज-अशुभकर्मनिर्जरारा - पुण्यानुबन्धिपुष्य- असदारम्भनिवृत्तिरूपबहुगुणानामसम्भवे सति तेषां सदारम्भिणां पूजासत्काररूपद्रव्यस्तव उचित एव यतस्तस्मिन् काले पूजासत्कारौ बहुगुणौ तथा च तादृशप्रकारवती जिनेन्द्रवचनरूपाऽऽज्ञाऽस्ति, तदंशे साभ्यं ज्ञेयं ।
तादृशाऽऽज्ञाया मुख्यबीजं दर्शयति
— स्थाने '—उपकारि-द्रव्यस्तवादौ ( दाष्टन्तिकपक्षे ) च कूपखननादौ ( दृष्टान्तपक्षे ) विधिप्रवृत्तिः-औचित्य -अर्थान्निजाऽवस्थाया योग्यतारूपौचित्यपूर्वक – प्रवृत्तिरस्ति, यदि स्थाने ( उपकारिस्थले ) औचित्यप्रवृत्तिरूप - विधिप्रवृत्तिर्न भवेत् ( प्रकारान्तरेणाऽपि - औचित्यप्रवृत्तिरूपविधिप्रवृत्तिप्रकारादन्यप्रकारेण करणेऽपि ) तदाऽपि ततोऽपि प्रत्यपायभावो भवति तथा चेतादृग् वस्तुस्थित्यैव पूजासत्कारयोः ( कारणानुमत्यपेक्षया ) साधुश्च ( करण कारणानुमत्यपेक्षया ) श्रावकोऽधिकारी भवति.