________________
ललितविस्तरा संस्कृतटीका
तदेवं साधुरित्थमेवैतत्सम्पादनाय -कारणानुमतिपूर्वक - द्रव्यस्तव सम्पादनाय, कारणानुमती कुर्वाणः, तत्र प्रवर्त्तमानों नाविषयः - द्रव्यस्तवस्याऽपेक्षयाऽधिकारी, साधुरेव एवमेव शास्त्र - वचनस्य प्रामाण्यमस्ति, यदि वचनप्रामाण्यमन्येत तदा पूजा सत्काररूप- द्रव्यस्ततो यत् कर्मक्षयादि फलं भवति, तत् कायोत्सर्गतो भवतु, इत्याकारकाशंसया प्रार्थनया वा कर्मक्षयादिरूपेष्ट - फल- सिद्धिर्भवति. अन्यथा - वचन - नामाण्यास्वीकारे पूर्वोक्तेष्टफलसिद्धेरभावः स्यादिति साधोद्रव्यस्तवाधिकार-सिद्धिः ।
श्रावकस्य पूजासत्कारविषयेऽसन्तोषः
१६
श्रावस्तु सम्पादयन्नप्येतौ भावातिशयात् अधिकसम्पादनार्थमाह, न तस्यैतयोः सन्तोषः,
तद्धर्म्मस्य तथास्वभावत्वात्, जिनपूजनसत्कारयोः करणलालसः खल्वाद्यो देशविरतिपरिणामः, औचित्यप्रवृत्तिसारत्वेन, उचितौ चारम्भिण एतौ सदारम्भरूपत्वात्,
पं....“तद्धर्मेत्यादि” तद्धर्मस्य - श्रावकधर्मस्य “तथास्वभावत्वात् " जिनपूजा सत्कारयोराकांङ्क्षातिरेकात्, असन्तोषस्वभावत्वात् एतदेव भावयति - " जिनपूजा सत्कारयोः ” उक्तरूपयोः “ करणलालस एव " विधानलम्पट एव, खलुशब्दस्यैवकारार्थत्वात् यः सचित्ताss
,
""
रम्भवर्णाभिधानाष्टभप्रतिमाभ्यासात् प्राक्कालभावी " देशविरतिपरिणामः " श्रावकाध्यवसायः, कथमित्याह-“औचित्यप्रवृत्तिसारत्वेन” निजावस्थाया आनुरूप्येण या प्रवृत्तिः - चेष्टा तत्प्रधानत्वेन, औचित्यमेव भावयन्नाह - " उचितौ च " योग्यौ च " आरम्भिणः तत एव प्रथि - व्याद्यारम्भवतः 'एतौ " पूजासत्कारौ, कुत इत्याह - " सदारम्भरूपत्वात् " सन् - सुन्दरो जिनविषयतया आरम्भः पृथिव्याद्युपमर्दस्तद्रूपत्वाद्, आरम्भविशेषेऽपि कथमनयोः सदारम्भत्वमित्याशङ्क्याह——
66
टी..... अथ श्रावकस्तु स्वयं नियमतोऽर्हच्चैत्यानां पूजासत्कारौ सम्पादयत्येव तथापि भावस्य–परिणामस्यातिशयात्-प्राबल्यात्, पूजासत्कारौ, अधिकाऽधिकं कर्तुं वदति “ अर्हच्चेत्यानां पूजासत्काराभ्यां यत्कर्मक्षयादि फलं भवेचत् कायोत्सर्गतो मम भवतु " इत्याशंसा (प्रार्थना - भाव) विशिष्टः श्रावकः 'पूयणवत्तियाए' 'सक्कारखत्तियाए' इत्यादि पदानि वदतीति युक्तमेव. यतः श्रावकस्य पूजासत्कारविषये संतोषो (तृप्तिः ) न भवति, यतः श्रावक