________________
ललित विस्तरा संस्कृत टीका
१७
धर्मस्य जिमपूजासत्कारविषये इच्छातिरेकादसन्तोषस्वभावो ( कृतयोरपि एतयोर्न संतोष इति स्वरूपो ) वर्त्तते, एतदेव स्पष्टयति
',
जिनपूजा - जिनसत्कारयोः पुनरपि पुनः करणलम्पट एव यः सचित्ताऽऽरम्भवर्जननामका - ऽष्टम-प्रतिमाया अभ्यासात्, आद्यः प्राक्कालभावी, देशविरतिपरिणामः - श्रावकस्याध्यवसायो भवति, यतो निजावस्थाया आनुरूप्यरूपौचित्यद्वारा प्रवृत्तिरतस्तत्प्रवानतावान् श्रावकाऽध्यवसायो वर्त्तते, किमौचित्यमत्रेति चेदुच्यते तत एव पृथिव्याद्यारम्भवतः 'आरम्भिण : ' श्रावकस्य पूजासत्कारावेतावुचितौ - योग्यावेव यतः सन् - जिनविषयतया सुन्दरः, आरम्भ:-ट — पृथिव्याद्युपमर्दस्तद्रूपौ -सदारम्भरूपौ पूजासत्कारौ वर्चेते.
( मुनेर्निर्मलाशयपूर्वक - तया नद्या उत्तारे हिंसा न कथिता, यद्यपि नद्या उत्तारे जीवविराधनाऽस्त्येव तथापि विधिना, यतनया, शुभाशयतया नद्या उत्तारे मुने हिंसा न कथिता, तथा विधियोगेन शुभभावेन यत्तनया जिनेन्द्राणां पूजाऽपि निःश्रेयस - निबन्धनम्, एषा जिनपूजा सोपयोगं सशुभभावं भवति, तस्मात्, जिनपूजादौ, अपरिमितारम्भमान्यतावन्तः स्वयं भवजले पतन्ति, अन्यश्च पातयन्ति, यस्यां क्रियायां विषयारम्भत्यागोऽस्ति, सा क्रियानित्यं भवजलतारिणी कथ्यते यतः संसारहेतुभूत - विषयारम्भः पापवर्धको भवति, तथापि यः सदारम्भोऽस्ति ततोऽशुभभावान्निवृत्तिश्च पापक्षयो भवति, जिनेन्द्रपूजया वीतरागदेवस्य गुणानां ध्यानं भवति, वीतरागविषयक गुणध्यानरूप - शुभभावतो विषयारम्भत्यागतो निर्भयताऽऽयाति अत एव जिनपूजादिकं सदारम्भरूपमस्ति, तत्र चाशुभभाव निवृत्तिरूपो महान गुणोऽस्ति. )
अन्यच्च प्रतिमापूजनेन विनयो भवति, विनर्योऽतरङ्गतपस्त्वेन कथ्यते, यतः प्रभोः प्रतिमाविनयेन शुभभावो भवति, शुभभावेन च जीव: मुक्तिगतिप्राप्तये भाग्यवान् भवति.
यः कश्चित् प्रतिमापूजायामारम्भं मत्वा जिनेन्द्रं न पूजयति, तन्न युक्तं यतः प्रतिमापूजने आरम्भवादी, कि दान, वन्दनं, आदेशादिक्रियां न विदधाति ? दानवन्दनादिक्रियायां क्रियमाणायां किं वायुकायादि - जीवस्य विराधना न भवति ? दानादिधर्म-प्रवृत्ति - स्वीकारं विना किं चलति ? दानादिप्रवृत्तौ क्रियमाणायां वायुकायादिर्ज वविराधनाया आशयो नास्ति. अपि तु शुभाशयो वर्त्तते, तर्हि तदुत्तरे विज्ञापनमस्ति यत् पूजायां क्रियमाणायामपि जलकाया दिजीव विराधनाया भावो नास्ति परन्तु शुभाशयोऽस्ति पुष्पादिजीवा रम्भतः पूजा सावद्येति