________________
ललितविस्तरासंस्कृतटीका अर्थादन्येषां महादोषान्तरनिवृत्तये साधूनां महादोषान्तरनिवृत्तिहेतुभूतद्रव्यस्तवस्योपदेशोऽनिवार्य आवश्यको भवेदेव. एवं द्रव्यस्तवोपदेशे प्रवर्तकत्वरूपेण महादोषान्तरनिवृत्तिरेवोद्देश्यभूता. यतो द्रव्यस्तवोपदेशाऽभावे द्रव्यस्तवो न भवेद्, द्रव्यस्तवाभावे महादोषान्तरनिवृत्तेरभावः स्यादतो द्रव्यस्तवोपदेशदानद्वारा साधूनां द्रत्यस्तवस्य कारणं ( कारापणं ) निरवयं-महागुणनिष्पादकं-निर्दोष, युक्तियुक्तमेव ।
द्रव्यस्तवोपदेशने प्रयोजक:-प्रवर्तकः. अंश-निवृत्तिरूपो द्रव्यस्तवकर्तक्रियाया विभागरूपः, कुत इत्याह-तथाभावतः-दोषान्तरनिवृत्तिभावात् प्रवृत्तेः-चेष्टाया, उपायान्तराभावात द्रव्यस्तवपरिहारेण, अन्यहेतोरभावो वर्त्तते ।।
अत्र विषये दृष्टान्तपूर्वकभावना विचार्यानागभयसुतगर्ताकर्षणज्ञातेन भावनोयमेतत्, तदेवं साधुरित्थमेवैतत्सम्पादनाय कुर्वाणो नाविषयः, वचनप्रामाण्यात् , इत्थमेवेष्टसिद्धेः, अन्यथाऽयोगादिति,
पं...." नागेत्यादि " नागभयेन-सर्पभीत्या सुतस्य-पुत्रस्य गर्त्तात्-श्वभ्रादाकर्षणम्-अपनयनमेतदेव ज्ञातं दृष्टान्तस्तेन "भावनीयमेतत्" साधोव्यस्तवकारणं देशनाद्वारेण, तथाहिकिल काचित्स्त्री प्रिय पुत्रं रमणीयरूपमुपरचय्य रमणाय मन्दिरस्य बहिर्विससर्ज, स चातिचपलतया अविवेकतया च, इत इतः पर्यटन्नवटप्रायमतिविषमतटमेकं गर्त्तमाविवेश, मुहूर्तान्तरे च प्रत्यपायसम्भावनया चकितचेता माता तमानेतुं तं देशमाजगाम, ददर्श च गर्तान्तर्वतिनं मिजसून, तमनु च प्रचलितमनाकलितकोपप्रशममञ्जनपुब्जकालकायमुद्घटितातिविकटस्फटाटोपं पन्नगं, ततोऽसौ गुरुलाघवालोचने चतुरा नूनमतः पन्नगादस्य महानपायो भवितेति विचिन्त्य सत्वरप्रसारितकरा गर्त्तात् पुत्रमाचकर्ष, यथाऽसौ स्तोकोत्कीर्णशरीरत्वक्तया सपीडेऽपि तत्र न दोषवती, परिशुद्धभावत्वात् , तथा सर्वथा त्यक्तसर्वसावद्योऽपि साधुरुपायान्तरतो महतः सावद्यान्तरानिवृत्तिमपश्यन् गृहिणां द्रव्यस्तवमादिशन्नपि न दोषवानिति ।
____टी०....नागभयसुतगर्ताकर्षण-ज्ञातेन भावनीयमेतत्-सर्पस्य भयेन पुत्रस्य गर्तादपनयनमेतदेव ज्ञातं-दृष्टान्तस्तेन भावनीयमेतत् , साधोव्यस्तवकारणं देशनाद्वारेण, पञ्जिकायां दृष्टान्तो द्रष्टव्यः । सर्वथा त्यक्तसर्वसावद्योऽपि साधुरुपायान्तरतो महतः सावद्यान्तरान्निवृत्तिमपश्यन् गृहिणां द्रव्यस्तवमादिशन्नपि न दोषवानिति ।