________________
१५
ललितविस्तरा संस्कृत टीका
हेतुमाह - " दोषान्तरनिवृत्तिद्वारेण दोषान्तराद् - द्रव्यस्तवापेक्षयाऽन्यस्मादिन्द्रियार्थहेतोर्महतः कृष्याद्यारम्भविशेषात्तस्य वा या निवृत्तिः- उपरमः स एव द्वारम् उपायस्तेन, ननु कथमिदमनवम् ? अवद्यान्तरे प्रवर्त्तनादित्याशङ्कयाह - " अयं " दोषान्तरान्महतो निवृत्तिरूपः " अत्र " द्रव्यस्तवोपदेश " प्रयोजकः " प्रवर्त्तकः " अंशः " निवृत्तिरूपाया द्रव्यस्तवकर्त क्रियाया विभागः, कुत इत्याह-"तथाभावतो” दोषान्तर निवृत्तिभावात् "प्रवृत्तेः" चेष्टायाः " उपायान्तराभावात् " द्रव्यस्तवपरिहारेण अन्यहेतोरभावात् कथमित्याह
27
1
टी..... तथा च = इदमेतावद - विरतानां (विरता विरतानां वा ) जन्मनः फलं साधु - शोभनमिति वचनलिङ्गगम्यम्, भवति च भगवतां पूजासत्कारावुपलभ्य साधोः प्रमोदः - तदनुमतिरियं.
( पूयाफलपरिकहणा पमोयणा चोयणा उ कारावणं । अनुमोयणाऽविजायइ पमोयउववूहणाईहिं ॥ ४११ ॥ बृ.)
उपदेशदानतः कारणापत्तेश्च,
?
( सुव्वइय वइररिसिणो कारावणंपिय अणुट्टियमिमस्स । वायगथे तहा एयगया देसणा चेव ।। ४९२ ।। बृ.)
ददाति च भगवतां पूजासत्कारविषयं सदुपदेशं - ' कर्त्तव्या जिनपूजा' न खलु वित्तस्याऽन्यच्छुभतरं स्थानमिति वचन - सन्दर्भेण, तत्कारणमेतत्, अनवद्यं च तद्, दोषान्तरनिवृत्तिद्वारेण,
( पूजा सत्कारविषयक प्रशंसा तु यथा दानधर्मस्य प्रशंसयाऽऽरम्भपरिग्रहप्रशंसा न गण्यते यतः तत्र त्यागांशस्य प्रशंसा वर्त्तते, तथाऽत्रापि पूजासत्काररूप - द्रव्यस्तवस्य प्रशंसया, आरम्भपरिग्रहप्रशंसा न गण्यते यतोऽत्र भक्तिबहुमानांशस्य प्रशंसा वर्त्तते. )
"
अयमत्र प्रयोजकोंऽशः, तथा भावतः प्रवृत्तेः उपायान्तराभावात्, अर्थादेतद् द्रव्यस्तवस्योपदेशद्वारा कारणं ( कारापणं) साधूनां निर्दोषमेव, यतस्तत्र द्रव्यस्तवापेक्षया यदन्यमहतः, इन्द्रियार्थ - विषयहेतुभूतकृष्यादि - महारम्भविशेषतो विरमणमथवा तन् महाविषयहेतुभूत कृष्यादि - महारम्भविशेषतो निवृत्तिरूप - महागुणरूपोपायहेतुद्वारलक्षणमस्ति अर्थान्महादोषान्तर निवृत्तिरूपमहागुणद्वारा द्रव्यस्तवस्य कारणं ( कारापणं) तन्निरवद्यमेव.
अन्यच्च द्रव्यस्तवस्योपदेशप्रवृत्ति प्रति द्रव्यस्तवकर्तृनिष्ठक्रियाविभागांशभूतमहादोषान्तर निवृत्तिः, हेतुरस्ति, यतो द्रव्यस्तवोपदेशं विना द्रव्यस्तव प्राप्तिरन्यस्य कथं स्यादर्थाद् द्रव्यस्त वं विना महादोषान्तरनिवृत्तिरन्यस्य न स्यात्, द्रव्यस्तवसत्त्व एव महादोषान्तरनिवृत्तिः संभवेत्,