________________
ललितविस्तरासंस्कृतटीका
" अकृत्स्नप्रवर्तकानां (प्रवृत्तानां ) विरताविरतानां एष खलु युक्तः ।
येषां कृत्स्नसंयमानां विदां पुष्पादिकं न कल्पते ।।") महानिशीथसूत्रेण साधूनां द्रव्यस्तवो निषिद्धोऽस्ति. श्रावकस्तु यथाविभवं पूजासत्कारौ सम्पादयत्येव. 'जिनपूयाविभवबुद्धि' इति शास्त्रीयवचनद्वारा, श्रावकस्य द्रव्यस्तवविषयक-प्रधानत्वेन तत्र--द्रव्यस्तवे तत्त्वदर्शनमस्ति, तस्मादनयोः साधुश्रावकयोः को विषयः ? कोऽधिकारी ? इति चेदुच्यते
समाधानम् सामान्येन ( पूजकत्वापेक्षया, करणकारणानुमोदनान्यतमत्वरूपसामान्यापेक्षयाऽथवा करणादित्रितयरूपसर्वापेक्षया) द्वावपि साधुश्रावको विषयरूपाधिकारिणौ स्तः, शास्त्रे साधोः स्वकरणमधिकृत्य द्रव्यस्तवनिषेधः, अर्थात् साधुः स्वयं द्रव्यपूजारूपद्रव्यस्तवं न कुर्यादिति निषेधः कृतोऽस्ति. परन्तु करणकारणाऽनुमोदनरूपसर्वसामान्यापेक्षया न निषिद्धम् , यतः पूजासत्काररूपद्रव्यस्तवविषये साधूनामनुमोदनारूपोऽधिकारोऽस्ति, एतत्प्रमाणव्यवहारतः सिद्धं, तथा च पूजनसत्कारविषयकानुमोदना-प्रशंसा साधुषु व्यवस्थिताऽस्त्यतः साधूनामनुमतिरूपाऽपेक्षया द्रव्यपूजारूपो द्रव्यस्तवो विद्यते, ततो यत्फलं भवति तत्फलविषयकाशंसा, कायोत्सर्गतो याचनीयेति प्रमाणरूपेण युक्तमस्ति.
साधूनां पूजनसत्काररूपद्रव्यस्तवविषयिण्याः प्रशंसाया आकार दर्शयित्वोपदेशनदानद्वारा द्रव्यस्तवस्य कारणं (कारापणं) कथं साधुषु घटेत?
भवति च भगवतां पूजासत्कारावुपलभ्य साधोः प्रमोदः, साधु शोभनमिदमेतावजन्मफलमविरतानामिति वचनलिङ्गगम्यः, तदनुमतिरियं, उपदेशदानतः कारणापत्तेश्च, ददाति च भगवतां पूजासत्कारविषयं सदुपदेश-कर्त्तव्या जिनपूजा, न खलु वित्तस्यान्यच्छुभतरं स्थानमिति वचनसन्दर्भेण, तत्कारणमेतत् , अनवयं च तद् , दोषान्तरनिवृत्तिद्वारेण, अयमत्र प्रयोजकोशः, तथा भावतः प्रवृत्तेः,, उपायान्तराभावात् ,
पं....ननु यावज्जीवमुज्झितसर्वसावद्यस्य साधोः कथं सावधप्रकृतेः द्रव्यस्तवस्योपदेशेन कारणं युज्यते १ इत्याशङ्कयाह-“अनवद्यं च" निर्दोषं च “ एतद् ” द्रव्यस्तवकारणं,