________________
ललितविस्तरा संस्कृत टीका
कस्तूरी. आदिना प्रभोःशरीरे पत्रादिद्वाराऽङ्गरचना रूपं तदेव सत्कारः, अर्थादर्हच्चैत्यानां सत्कारेण यादृशं कर्मक्षयादिरूपं फलं भवेत्तादृशं कर्मक्षयादिरूपं फलं कायोत्सर्गतो भवतु.
१२
( पापानां गमनागमनादि - समुत्थानां क्षपणार्थ - निर्घातनार्थमीर्यापथिक्या कायोत्सर्ग इति योगः । गमनागमनादिसमुत्थपापक्षयरूपं फलमीर्यापथिकी- कायोत्सर्गाद् भवति, इति तथा वंदनप्रत्ययादीनि षट् निमित्तानि - फलानि येभ्यस्तु, तथा त्रय उत्सर्गा इति शेषः, वंदनपूजन - सत्कार - सन्मान - बोधिलाभ - निरुपसर्गेति षट् फलानि चैत्यवंदनादिकायोत्सर्गेभ्यः, तत्र - " सुमरणथुइन मणाई शुभमणवइतणुपवित्ति वंदणयं । पुप्फाईहि पूयणमिह वत्थाईहिं सकारो ॥१॥ संमाणो णर्पा, विणयपडिवत्ति, बोहिलाभोउ । पेच्चजिणधम्मसंपत्ति, निरुपसग्गो उनिव्वाणं ||२|| अरिहाइवंदणाइसु जं पुन्नफलं हवेउ स मज्झ, उस्सग्गा उच्चियतप्फलेहिं बोही तओवि सिवो ॥३॥"
तथा प्रवचनसुराः- सम्यग्दृष्टयो देवास्तेषां स्मरणार्थ वैयावृत्त्यकरेत्यादि - विशेषणद्वारेणोपबृंहणार्थ क्षुद्रोपद्रवविद्रावणादिकृते तत्तद्गुणप्रशंसया प्रोत्साहनार्थमित्यर्थः यद्वा तत्कर्त्तव्यानां वैयावृत्त्यादीनां प्रमादादिना श्लथीभूतानां प्रवृत्त्यर्थं, अश्लथीभूतानां तु स्थैर्याय च स्मारणा - ज्ञापना, तदर्थ, सारणार्थ वा- प्रवचनप्रभावनादौ हितकायें प्रेरणार्थ. कि ? उत्सर्गः - कायोत्सर्गः चरम इति शेषः, इत्येतानि निर्मितानि - प्रयोजनानि फलानीति यावद् अष्टौ चैत्यवंदनायां भवन्तीति शेषः । श्री दे. चै. श्रीधर्म संघाचारविधौ । पृ. ४०० )
अत्र मुख्यत्वे द्रव्यपूजया च द्रव्यसत्कारेण यत्फलं प्राप्नुयात् तत्फलं चैत्यवन्दनान्तर्गतकायोत्सर्गतोऽपि भवतु इत्यर्थः, तथाऽपि भावपूजाया अधिकारिणो मुनेः कृते, एतत्पदसम्बन्धी ( द्रव्यपूजा फलसम्बन्धी ) विसंवादो नास्ति, द्रव्यपूजा - सत्कफल - याञ्चा - योग्याऽस्ति यतो मुनेरनुमतिद्वारा द्रव्यपूजा विद्यतेऽर्थाद् द्रव्यपूजा प्रशंसनीया गण्यते, एतावदपि न, परन्तु द्रव्यपूजा मकुर्वन्तं जनं द्रव्यपूजा - कृते प्रेरयत्यपि तथा पूजनसत्कार - सन्मानयोः प्रार्थना साधुकृते नानुचिता, साधूनां द्रव्यस्तवनिषेधस्तु केवलं करणमपेक्ष्यास्ति, किन्तु कारणानुमती अपेक्ष्य नास्ति. जिनपूजा कार्येव यतो गृहिणां लक्ष्म्याः सदुपयोगोऽस्माच्छुभतरं किमपि स्थानं नास्तीत्यादि—देशनादानद्वारा भगवतां पूजासत्कारयोः कारणं तथा पूजासत्कारौ दृष्ट्वाऽनुमोदनमेतत् साधूनामर्थे कर्त्तव्यमस्ति शङ्का = पूजासत्कारयोरधिकारी साधु र्वा श्रावकः कोऽस्ति ? तत्र पूजासत्कारौ साधूनपेक्ष्यानुचितावेव यतः पूजासत्कारौ द्रव्यस्त वरूपौ स्तः ।
(“ अकसिण पवत्ताणं, विरयाविश्याण एस खलु जुत्तो ।
जेकसिएसंजमाण विऊपुप्फा दिए ण कप्पए ॥ ( पुप्फाइयं न इच्छन्ति ) ” ( महानिशीथसूत्रे तृतीयाध्ययने )