________________
ललितविस्तरा संस्कृत टीका
समाधानम् = षष्ठीविभक्त्या दर्शितं यद् ' अर्ह चैत्यानां ' इति पदं, तस्यान्वयः - सम्बन्धः, अतनं पदद्वयमतिक्रम्य मण्डूकप्लुत्या ( ' मण्डूकप्लुतिन्यायः ' यथा मण्डूका उत्प्लुत्योत्प्लुत्य गच्छन्ति, तद्वत्प्रकृतेऽपि ) उत्प्लुत्य ' करोमि च कायोत्सर्ग' इति पदद्वयं - पश्चात् कृत्वा - उल्लंघ्य वन्दनप्रत्ययमित्यादि - पदैः सहाभि-सम्बध्यते, अर्थात् 'अर्हचैत्यानां वन्दनप्रत्ययं करोमि ' कायोत्सर्ग' अर्हतां प्रतिमानां वन्दनानिमित्तं कायोत्सर्ग करोम्यहमिति पदान्वयो योज्यः ।
११
कायोत्सर्गकरणाय 'निमित्तानां - प्रयोजनानां ( उद्देश्यं यथा तस्यागमन - कारणमित्यादौ कारणमुद्देश्यं, प्रयोजनं, फलं वेत्यर्थः ) वर्णनं वन्दनप्रत्ययमिध्यादिपदादारभ्य निरुपसर्गार्थमिति पर्यन्तेषु षट्सु पदेषु दर्शितमस्त्यतः - षट्पदवती - निमित्तसंपदो निरूपणं क्रियते -
(१) वन्दनप्रत्ययमित्यत्र वन्दनं - अभिवादनं ( अभिमुखीकरणाय वादनं वदनं वद 'ल्युट' वा अभिमुखं वाद्यते आशीरनेन 'वदणि च ल्युट् । अभिवाद्यते आशिषं कार्यतेऽनेन ) प्रशस्त - कायवाङ्मनःप्रवृत्तिरित्यर्थः, वन्दनप्रत्ययमित्येतत्सुत्रस्यैषोऽर्थः, अर्हतामर्थाद्भावार्हतां यानि चैत्यानि -चित्तसमाधिजनकप्रतिमालक्षणानि तेषां वन्दनादिकप्रतीतिरूपमहं कायोत्सर्ग करोमि, कायोत्सर्गः - स्थानमौनध्यानानि विना क्रियान्तरत्यागः, तमहं करोमि .
( ' वन्दनवत्तियाए ' - वन्दनं - श्रेष्ठमनोवचः कायप्रवृत्तिः, तन्निमित्तमर्थाद् वन्दनतो यथा पुण्यं भवेत् तादृशं कायोत्सर्गतोऽपि मम पुण्यं भवतु ' वत्तिआए' ति आप्रयोगः, इति प्रतिमाशतके टीकायां )
तत्प्रत्ययं - तन्निमित्तं, तत्फलं मे कथं नाम कायोत्सर्गादेव स्यादित्यतोऽर्थमित्येवं सर्वत्र भावना कार्या (यद्यपि साधुः श्रावकश्च श्रीमदर्हतां चैत्यानि निरन्तरं यथोयोग्यं वन्देते एव तथापि, अधिकाधिकं कर्त्तु भावं प्रदर्शयितुं भावातिशय- वृद्धये कायोत्सर्गद्वारा प्रार्थना कार्या, साऽपि युक्तियुक्ता, एवं रीत्या भक्तेरतिशयप्रकटन - जननद्वारा कर्मनिर्जराया आधिक्यं भवत्येव . )
(२) पूजनप्रत्ययं = तथा अर्हचैत्यानां पूजननिमित्तकफलमुद्दिश्याहं कायोत्सर्ग करोमीति वाक्येऽचैत्यानां पूजनेनार्थाद् गन्धपूजा ( चन्दनादिपूजा) माल्यपूजाभि (पूष्पादिपूजादिभिः) रादिना त्रिप्रकारी - पञ्चप्रकारी - अष्टप्रकारी - सप्तदशभेदवती - एक विंशतिभेदवती - अष्टोतर - शतप्रकारी पूजाभिर्यादृक् कर्मक्षयादिरूपं फलं भवेत्ताहकू फलं कायोत्सर्गतो मम भवतु, एतदर्थ कायोत्सर्ग करोमि .
(३) तथाऽर्हच्चैत्यानां सत्कारनिमित्तकफलमुद्दिश्याहं कायोत्सर्ग करोमि अत्र वाक्ये - ऽर्हृत्प्रतिमायाः सत्कारः=उत्तमोत्तम वस्त्रपरिधापनादिकं, आभरणं ( भिन्नभिन्नालंकारभूषणादिक )