________________
२०
ललितविस्तरा संस्कृत टीका कप्लुत्या वन्दनप्रत्ययमित्यादिभिरभिसम्बध्यते, ततश्चार्हच्चेत्यानां वन्दनप्रत्ययं करोमि कायोत्सर्गमिति द्रष्टव्यं...
___ तत्र वन्दनम्-अभिवादनं प्रशस्तकायवाड्मनःप्रवृत्तिरित्यर्थः, तत्प्रत्ययं-तन्निमित्तं, तत्फलं मे कथं नाम कायोत्सर्गादेव स्यादित्यतोऽर्थमित्येवं सर्वत्र भावना कार्या, तथा “ पूयणवत्तियाएत्ति” पूजनप्रत्ययं-पूजननिमित्तं, पूजन-गन्धमाल्यादिभिः समभ्यर्चनं । तथा “ सकारवत्तियाएत्ति” सत्कारप्रत्ययं-सत्कारनिमित्तं, प्रवरवस्त्राभरणादिभिरभ्यर्चनं सत्कारः। आह-साधुः श्रावको वा? , तत्र साधोस्तावत्पूजनसत्कारावनुचितावेव, द्रव्यस्तवत्वात् , तस्य च तत्प्रतिषेधात् “तो कसिणसञ्जमविऊ पुप्फाईयं न इच्छन्ति” इतिवचनात्, श्रावकस्तु सम्पादयत्येवैतौ यथाविभवं, तस्य तत्प्रधानत्वात् , तत्र तत्त्वदर्शित्वात् , जिणपूयाविभवबुद्धित्तिवचनात् , तत्कोऽनयोर्विषय इति, उच्यते, सामान्येन द्वावपि साधुश्रावको, साधोः स्वकरणमधिकृत्य द्रव्यस्तवप्रतिषेधः, न पुनः सामान्येन, तदनुमतिभावात् ,
पं...." तत्फलेत्यादि ” “ तत्फलं” तस्य-वन्दनस्य फलं-कर्मक्षयादि मे-मम कथं नाम-केनापि प्रकारेण कायोत्सर्गस्यैवावस्थाविशेषलक्षणेन कायोत्सर्गादेव न त्वन्यतोऽपि व्यापारात्, तदानीं तस्यैव भावात् “म्याद” भूयाद् 'इति' अनया आशंसया “अतोऽर्थम्" वन्दनार्थमिति.
टी.....वादी-(शङ्का ) कायस्योत्सर्ग इति विग्रहेण षष्ठया तत्पुरुषसमासः-प्रकृतः ( यत्र समासे पूर्वपदमुत्तरपदेन सह विभक्त्याः सम्बन्धेन युक्तं स तत्पुरुषः कथ्यते, तत्रोत्तरपदं प्रधानं च पूर्वपदं गौणं) अत्र पूर्वपदरूपकायस्योत्सर्गरूपोत्तरपदेन सह विभक्त्या सम्बन्धः, अत 'कायोत्सर्ग' इत्यत्र षष्ठीतत्पुरुषसमासोऽस्ति, किश्च 'अर्हचैत्यानां' इति च पूर्वमावेदितं, तत्किमर्हचैत्यानां कायोत्सर्ग करोमीत्यन्वयः क्रियते भवद्भिस्तदुच्यते