________________
ललित विस्तरा संस्कृत टीका
पुरुषद्वारा रूपाख्यानं दत्तुं प्रचारोऽस्ति, तत्र तृतीयः - द्वितीयः, प्रथमः इति क्रमोऽस्ति, अस्मात् कारणात्, तृतीयः पुरुषः, प्रथम पुरुष इति द्वितीयो मध्यस्थत्वान्मध्यमः प्रथमः, वक्तुः सम्बन्धित्वेनान्तिमत्वेनोत्तमः कथ्यते . )
,
तेन 'अहं' सर्वनाम्नाऽऽत्मनोऽभ्युपगमं दर्शयति. ( अहमक खम्, अहं करिष्यामि, अहं करोमीत्यादिप्रकारैः कालत्रयस्य व्यवहारेऽहमिति प्रतीतिर्भवति, तथा प्रतीत्याऽप्यात्मा प्रत्यक्षसिद्धो वर्त्तते, यदि, आत्मनोऽनभ्युपगमे तदाऽहमिति शब्देन कस्य पदार्थस्य ग्रहणं स्यात् ? कदाचिदहंशब्देन शरीरस्य ग्रहणं कुर्यात्तदा यथा ' मया कृत 'मिति प्रतीति: सचेतनशरीरे भवति तथाऽचेतनमृतकेऽपीदृशी प्रतीतिर्जायेत, यतः स्थितिद्वयेऽपि शरीरमस्त्येव, मृतके एतादृशी प्रतीतिर्न भवत्यतः मया कृतं करोम्यह इत्यादिप्रतीतिः शरीराद्भिन्ने शरीरिणि आत्मनि भवति, स एवात्मा, नान्यत्किमपि शरीरादिकम् . )
C
"
कायोत्सर्गपदस्य मर्मोद्घाटनम् -
कायोत्सर्गः= शरीरस्योत्सर्गः, कृताकारस्य = आकृति - जिनमुद्रया युक्तस्याथवाऽपवादरूपस्वाभावि कक्रियारूपमुच्छ्वसितं निःश्वसितं कासितं क्षुतं, जृम्भितं, उद्गारितं, वातनिसर्ग, भ्रमलीं पितमूर्च्छा, सूक्ष्माङ्गसञ्चारं, सूक्ष्मखेलसञ्चारं, सूक्ष्मदृष्टिसंचारं विनाऽर्थात्, अकस्मात् स्यात्ततः शरीररक्षणं कर्त्तव्यं स्यादेतादृशाकारप्रतिपादक - सूत्रस्य ' अन्नत्थउससिएणं ' रूपस्यो - च्चारणं कुर्वतः पुरुषस्य स्थान मौनध्यानक्रियां विनाऽन्यसर्वक्रियान्तरस्य अध्यासं ( मिथ्याज्ञानं, तादात्म्यं निवासं ) उद्दिश्य अर्थात् कायं प्रतीत्य ( आकारं - जिनमुद्रामागारं च ) कुर्वतः पुरुषस्य स्थानमौनध्यानरूपक्रियाव्यतिरेकेण क्रियान्तरस्याध्याम - तादात्म्यस्य सर्वथा त्यागःकायोत्सर्ग इत्यर्थः, एवंविधं कायोत्सर्ग करोम्यहं ( कायमेकस्थाने स्थिरं कृत्वा वाण मौनमयीं विधाय मानसं ध्यानेन सह संयुज्यात्मनि देहबुद्धिरूपाध्यासस्य नाशं निर्मायैव निर्मायः शुद्धः कायोत्सर्गो भवति. )
अथाक्षेपपरिहारपूर्वकं पदान्वययोजनम् -
आह कायस्योत्सर्ग इति षष्ठया समासः कृतः, अर्ह - चैत्यानामिति च प्रागावेदितं तत्किमर्हच्चैत्यानां कायोत्सर्गी करोमीति, नेत्युच्यते, षष्ठीनिर्दिष्टं तत्पदं पदद्वयमतिक्रम्य मण्डू
२