________________
ललितविस्तरा संस्कृत टीका ( अन्यत्रापि, ये स्तुतिवन्दनयोग्या अमरेन्द्राणां पूजायोग्या ते श्रीमन्तोऽर्हन्तो भगवन्तो मम शरणदा भवन्तीत्युक्तमेव )
एतादृशां तीर्थकराणां प्रतिमारूपाः स्थापनाजिनाः अत्र चैत्यशब्दो जिनप्रतिमादिके रूढ एव, यतः 'चैत्यं जिनौ कस्तबिम्बं चैत्यो जिनसभातरूः' अत्र चैःयशब्दो जिनगृह विम्वरूपयोरर्थयोनपुंसकलिङ्गे वर्तते, जिनसभागतवृक्षरूपाशोकवृक्षरूपाऽर्थे पुलिङ्गे वर्त्तते.
चैत्यशब्दस्य व्युत्पत्तिलभ्यार्थ प्रदाऽर्हच्चत्यानां वन्दनादिलाभादिनिमित्तमहं कायोत्सर्ग करोमीतीतिविषयस्य विवेचनम्
'चित्तं' अन्तःकरण, तस्य भावः कर्म वा, (“चित्तंमणो पसत्थं तब्भावो चेइयंति तज्जणगं । जिणपडिमाओ तासि वंदणमभिवायण तिविहं ॥१॥")
यद्वा चितेः-लेप्यादिचयनस्य भावः कर्म वा चैत्य, तच संज्ञादि-शब्दत्वाद् देवताप्रतिविम्बे प्रसिद्धं, चूर्णी तु 'चिती संज्ञाने' काष्ठकर्मादिषु प्रतिकृति दृष्टवा संज्ञानमुत्पद्यते. यथाऽहंदादिप्रतिमषेत्युक्तम् ।।
चित्तोत्पादकत्वमत्र प्रशस्तसमाधि-चित्तोत्पत्तावसाधारणकारणरूपा प्रतिमा भवति अतः ( कारणे कार्योपचारं कृत्वा अर्हचैत्यत्वेन चैत्यं व्यवहियते. उपचारस्यार्थः-उपचारोऽत्यन्तं विशकलितयोः शब्दयोः सादृश्याऽतिशयमहिम्ना भेदप्रतीतिस्थगनमात्रं यथाहि घटमृत्तिकयोरुदाहरणं यदा हि मृत्तिका स्वावस्थायां स्यात्, घटरूपेण न परिणता स्यात्तदापि सत्कार्यवादापेक्षया अथवा तिरोभावविवक्षया मृत्तिका, घटरूपेति मान्यतायामेतदुपचारस्योदाहरणमस्ति. विशेषत एतादृशीस्थितावपि, एषा मृत्तिका घटरूपेति कथनं, नाऽन्यथा यतो यद्यपि एवंस्थितौ मृत्तिकायां घटस्य जलाहरणाद्या धर्मा न सन्ति, अर्थादेतन्मृत्तिकातो घटस्य कार्य न भवात तथापि रूपरसगन्धाद्याः केचित्समानधर्मा उभयत्र तिष्ठन्ति, अतः, तथा भविष्यत्काले सा घटीभवितुं शक्नोति, अत एवं कथनं न्याय्यमेव. पारिभाषिकशब्दैः, अत्र द्रव्यघटे भावघट आरोपित इति स्थापनाजिनो भावजिनत्वेनोपचर्यते. )
अर्हचैत्यानामहं कार्योत्सर्ग करोमीति महावाक्यान्तर्गते 'अहंकरोमी' तिवाक्ये, उत्तमपुरुषैकवचननिर्देशोऽस्ति..
(पुरुषास् त्रयः सन्ति, प्रथमो, द्वितीयः, तृतीयः, संस्कृतव्याकरणे तान् पुरुषान् क्रमेणोत्तमो मध्यमश्च प्रथमश्चेति कथयन्ति, संस्कृते तृतीय.