________________
ललितविस्तरा संस्कृत टीका
अन्यच्च स साधुर्वा श्रावक उत्तिष्ठति, जिनमुद्रया चैतत्सूत्रं पठति, ( अत्र कायोत्सर्ग कुर्वतां जिनानां या मुद्रा तया, अथवा जिन=विध्नजेत्री या मुद्रा सा जिनमुद्रा तया ) 'अरिहंत चेइआणं' चैत्यस्तवसूत्र (कायोत्सर्गदण्डकसूत्रं ) पठति, अरिहंत चै. सूत्रं, अन्नस्थ सहितं गण्यते, चैत्यस्तवस्य (कायोत्सर्गदण्डकस्य) अष्टौ सम्पदः सन्ति, तासां नामानि च स्वरूपं च कथयति,
(१) अभ्युपगमसम्पत्= अरिहंत चेइयाणं, करेमि काउसगं' इति पदद्वये जिनमन्दिररूपचैत्यस्थितजिनप्रतिमारूप-चैत्यसत्क-वादनहेतु-कायोत्सर्गकरणं प्रतिपन्नमत एतत्पदद्वयवती, 'अभ्युपगमसम्पत् ' कथ्यते.
(२) निमित्तसम्पन्=ततस्तत्कायोत्सर्गकरणस्य निमित्तं ( कार्यप्रयोजनं ) 'वंदणवत्तिआए' इति पदादारभ्य 'निरुवसग्गवत्तिआए' पर्यन्तवद्-वाक्ये षट्सु पदेषु दर्शितमस्ति, अतः षट्-पदवती द्वितीया, निमित्तसम्पत् कथ्यते.
(३) हेतुसम्पत्-श्रद्धादि विना कृतः कायोत्सर्ग इष्टफलसिद्धिसम्पन्नो न भवति तस्मास्कारणात् 'सद्धाए इति पदत: ठामि काउस्संग' पर्यन्तेषु सप्तसु पदेषु कायोत्सर्गस्य हेतुः, ( साधनं येन कार्यसिद्धिर्भवेत् (तत्साधनं ) दर्शितोऽस्ति) अतः पदसप्तकवती तृतीया हेतुसम्पत् कथ्यते.
(४) एकवचनाकारसम्पत्=कृतस्य कायोत्सर्गस्याऽपि, आकारं-अपवादं विना निर्दोषता न भवति, अतः ‘अन्नत्थ पदतो हुज्ज मे काउसागो' पर्यन्त-पदेषु षोढाऽऽकारा दर्शिताः सन्ति तेषु 'अन्नत्थ पदतः, पित्तमुच्छाए' पर्यन्तेषु नवसु पदेषु एकवचनत्वकारणेन नवपदवती चतुर्थी 'एकवचनाकारसम्पत् ' कथ्यते.
(५) बहुवचनाकार-सम्पत्=ततः ‘सुहुमेहिं पदतो, दिठ्ठिसंचालेहिं ' पर्यन्तेषु त्रिषु पदेषु बहुवचनत्वेन त्रिपदी पञ्चमी 'बहुवचनाकार-सम्पत् ' कथ्यते. ___(६) आगन्तुकाकारसम्पत्=ततः, अन्नत्थसूत्रकथिताकारेभ्यो भिन्ना बाह्यत आगताः केचिदाकाराः 'एवमाइएहिं ' -इत्येतेन पदेन सूचिता आकारा सन्ति तैः सर्वाकारैरपि कायोत्सर्गों भग्नो माभूदित्यतो 'हुज्ज मे काउसम्गो' पर्यन्तानि षट् पदानि कथितानि सन्तीत्यत-स्तत्षट्पदवती षष्ठी, आगन्तुकाकारसम्पत् कथ्यते.
(७) कायोत्सर्गावधिसम्पत्=ततः 'नाव अरिहंताणं पदतो, न पारेमि' पर्यन्तेषु चतुषु पदेषु कायोत्सर्गे कियत् कालं स्थेयमिति तस्य कालनियमो दर्शितोऽस्ति, अतश्चतुष्पदी सप्तमी कायोत्सर्गावधिनामिका सम्पत् कथ्यते.