________________
ललितविस्तरा संस्कृत टीका
एवंभूतैः स्तोत्रे र्वक्ष्यमाण- प्रतिज्ञोचितं चेतोभावमापाद्य पञ्चाङ्गप्रणिपातपूर्वकं प्रमोदवृद्धिजनकानभिवन्द्याचार्यादीन् गृहीतभावः सहृदयनटव दधिकृत - भूमिकासम्पादनार्थं चेष्टते
वन्दनासम्पादनाय.
एवंप्रकारावच्छिन्नैः स्तोत्रे ( शक्रस्तवसमानैः स्तोत्रैः ) वक्ष्यमाण - अग्रतः कथयिष्यमाणकायोत्सर्ग रूप - प्रतिज्ञाया उचितं - योग्यं चेतसो भाव ( शुभ्रलेश्यां ) सम्पद्य पञ्चाङ्गमणि - पातपूर्वकं - क्षमाश्रमणदानपूर्वकं प्रमोदवृद्धिजनकान् - प्रकृष्टानन्दवृद्धिकारणभूतान् ( श्रुतस्तवे जिननमस्कारवत् ) आचार्यादीन् ( आदिनोपाध्याय सर्वसाधून् ) अभितो वन्दित्वा,
( भावो भक्तिरपीत्यर्थः, साधु श्रावक - पक्षे भावः - भक्तिः, अथवाऽस्था - - प्रेम-भावार्थअभिप्रायादिरर्थः, नटपक्षे हृदयावस्था वेदको मानसविकारो भावः, सङ्गीतसङ्गति (त) पदार्थ - द्योतक - हस्तचेष्टा - विशेषो भाव इति अभिनयकलाज्ञा नर्तकाश्च संगिरन्ते, अभिप्रायोऽपीति काव्यज्ञाः संजगदिरे ) भावं गृहीत्वा, सहृदयनटवत् - शुभान्तःकरणः, काव्यार्थभावज्ञाने पक्व - बुद्धिकः, सभ्यचित्ताऽभिप्राय - चित्रदृढनृत्यवन्निजका र्यसिद्ध चित्तः, सहृदयनटवत् ( नान्दीपाठकनदीवत् )
अधिकृत भूमिका सम्पादनार्थं ( प्रकृत भूमिका कायोत्सर्गविषयणी या भूमिका तस्या ) ( नटपक्षे तत्तद्वेषस्तु भूमिका) अथवा वन्दनाविषयणी - भूमिकायाः सम्पादनाय चेष्टते ( करोति ) वन्दना - सम्पादनाय स चोत्तिष्ठति जिनमुद्रया पठति चैतत्सूत्रम्
स चोत्तिष्ठति जिनमुद्रया पठति चैतत्सूत्रम् -'अरिहंतचेइयाणं करेमि काउस्सग्गं वंदणवत्तियाए पूअणवत्तिआए सकारवत्तिआए सम्माणवत्तिआए बोहिलाभवत्तिआए निरुखसग्गवत्तिआए सढाए मेहाए धिइए धारणाए अणुप्पेहाए वड्ढमाणीए ठामि काउस्सगं । अनेन विधिनाऽऽराधयति स महात्मा वन्दनाभूमिकां,
आराध्य चैनां परम्परया नियोगतो निवृत्तिमेति, इतरथा तु कूटनटनृत्तवत् अभावितानुष्ठानप्रायं न विदुषामास्थानिबन्धनम्, अतो यतितव्यमत्रेति ।
टी. वन्दनायामेव परिणतो यदात्मा प्राप्यते तदा वन्दनाभूमिका, तामाराधयति जयति,