________________
ललितविस्तरा संस्कृत टीका
(८) कायोत्सर्गस्वरूपसम्पत्= तदनन्तरं 'तावकायं पदतो, वोसिरामि' पर्यन्तेषु षट्सु पदेषु कया रीत्या कायोत्सर्गः कार्यः ? इति तदीयस्वरूपं दर्शितं तस्माततश्चतुष्पदी, अष्टमी सम्पत् ' कायोत्सर्गस्वरूपनामिका सम्पत् कथिताऽस्ति.
सामान्यार्थस्त्वयम्=अर्हतां भगवतां चैत्यानि विषयीकृत्य त्रिधा करणेन वन्दनोद्देश्यकलाभहेतवे द्रव्योपकरणैः पूजां कर्तुं लाभहेतवे वस्त्राभरणादिद्वारा सत्कारं कर्तुं लाभ स्तुत्यादिद्वारा सन्मान करणजन्यलाभ हेतवे एवं कृत्वा सम्यक्त्वविषयक लाभ हेतवे, उपद्रवरहितोऽहं भवेयमिति मत्वा निरुपद्रवलाभ हेतवे, करोम्यहं कायोत्सर्ग । कीदृश्या रीत्या ! एवं प्रश्ने कथयति, श्रद्धया वर्धमानया बलाद् विना मानसरुच्या गतानुगतिकतां विना वर्धमानया बुद्धितो वा मर्यादया, वर्धमानया, धृत्या = रागदिनाऽप्रेरितया स्वतः शान्त्या वर्धमानया धारणया - मनः शून्यतां विना, अर्हद्विषयक - गुणानामविच्छिन्नस्मरणशक्त्या वर्धमानया-अनुप्रेक्ष्या=तत्त्वान्तगामिविचारणया, उच्छ्वसितादिरूपाकारान्, अपवादी कृत्य कायोत्सर्ग करोमि - स्थानेन मौनेन ध्यानेन स्थिरो कायोत्सर्गे भवामि .
६
विशेषार्थस्त्वयम् - अनेन पूर्वोक्तविधिना स साधुः श्रावको वा वन्दना भूमिकाराधको भवति, वन्दना - क्रियायां परिणतो यदात्मा भवति तदा वन्दना भूमिका - वन्दनात्मनोस्तादात्म्यरूपाभवति तदा स तद्वन्दना भूमिकाराधको महात्मा कथ्यते .
तामेतादृशीं वन्दना भूमिकामाराध्याराधको महात्मा परम्परया परमात्मा भवति ।
अन्यथा = ' अरिहंत चेइयाणं' रूपसूत्रपाठादिरूपपूर्वो विधिमतिक्रम्य कायोत्सर्गविधाने यथा कूटनटनृत्तवत् - मायाविनृत्यका रनृत्यक्रियावत् स निष्फलो वाऽसत्फलो भवति तथा प्रकृतसूत्रपाठादिविधि-विनाकृतं कायोत्सर्गरूपानुष्ठानं निष्फलमत एव प्रेक्षावतां कर्त्तव्यता- विषयक बुद्धिरूपारथाया हेतुर्न भवति, तस्मात् सूत्रपाठादि - विधिपूर्वकः कायोत्सर्गादि- सम्यक क्रिया यां सर्वथा प्रयत्नः कार्य इत्युपदेशः ।
— अथ शास्त्रकारो व्यापकरूपेणा क्षेपपरीहारपूर्वकस्य सूत्रार्थस्य गम्भीरगृढालोचनां करोति -
सूत्रार्थस्त्वयम् - अशोकाद्यष्टमहाप्रातिहार्यादिरूपां पूजामईन्तीत्यर्हन्तः - तीर्थकराः तेषां चैत्यानि - प्रतिमालक्षणानि अर्ह - च्चैत्यानि, चित्तम् - अन्तःकरणं तस्य भावः कर्म वा वर्णदृढादिलक्षणे व्यत्रि (वर्णदृढादिभ्यः ष्यञ्च पा० ५-१-१२३) कृते चैत्यं भवति, तत्रार्हतां प्रतिमाः प्रशस्तसमाधिचित्तोत्पादकत्वा