________________
ललितविस्तरासटीका इत्यादिना ग्रन्थेनेति नेह प्रतन्यते ।।
तदेवं निरुपचरितयथोदितसम्पत्सिद्धौ सर्वसिद्धिरिति व्याख्यातं प्रणिपातदण्डकसूत्रम् ॥
पं० . निरूपितम् “ एतद् ” अनन्तरोक्तम् “ अन्यत्र " अनेकान्तजयपताकायां, यथा निरूपितं तथैवाह-“यत इत्यादिश्लोकद्वयं" यतो-यस्मात् “स्वभावतो" वस्तुगतरूपरसादिरूपादुपादानभूतात् “ जातम्" उत्पन्नं " एक " कार्य वस्त्ररागादि, "नान्यत्" द्वितीयं स्वग्राहकप्रत्यक्षादिकं सहकारिभावेन “ततो" वस्तुस्वभावात् “भवेत्" जायेत, हेतुमाह,
“कृत्स्न" समस्तं "प्रतीत्य" आश्रित्य “तं" वस्तुस्वभावं “भूतिभावत्वाद् " भवनस्वभावत्वाद्, आद्यस्यैव कार्यस्य दृष्टान्तमाह-"तत्स्वरूपवद्” यथा स्वभावम्य हेतुभूतस्याधिकृतककार्यगतस्वभावस्य वा स्वरूपं स्वभावकााश्रयेणैव भवति, तथा प्रथममपि कार्यमिति परामिप्रायमाशङ्कयाह-" अन्यच्च ” द्वितीयं च कार्यमिति गम्यते, “एवंविधं च” तद्धेतुजन्यं च " इति” एतद् “ यदि स्याद् ” यदि भवेत् किं विरुध्यते ?, न किञ्चित्, तदपि भवत्विति भावः, अत्रोत्तरं-"तत्स्वभावस्य" वस्तुगतरूपरसादिरूपस्य “कात्स्न्यैन” सर्वात्मना “हेतुत्वं" निमित्तत्वं प्रथमं प्रति” आदिकार्यमाश्रित्य विरुध्यते, इदमुक्तं भवति-सर्वात्मनोपयुक्तत्वादाद्यकार्य एव कुतस्ततः कार्यान्तरसम्भवः, तत्सम्भवे च न प्रथमकार्ये तस्य कात्न्योपयोगः, इति बलादनेकरूपवस्तुसिद्धिरिति, आदिशब्दादन्यकारिकाग्रन्थो दृश्यः,
टी०....अनेकान्तजयपताकायां निरूपितं तस्य निरूपणम्___ अर्थात्-यस्मादुपादानभूत-वस्तुगतरूपरसादिरूपस्वभावादेक-वस्त्ररागादिरूपकार्य जातं तस्माद् वस्तुस्वभावात् (एकस्वभावत्वात् ) सहकारिभावेन सहकारित्वेन स्वग्राहकप्रत्यक्षादिरूपं( रूपरसादिग्राहकप्रत्यक्षादिरूप) द्वितीयं कार्य नोत्पद्येत यतः, समस्तवस्तुस्वभावमाश्रित्य (संव्याप्यालम्ब्य निमित्तीकृत्य) जननस्वभावोऽस्ति, हेतुभूतवस्तुगतरूपरसादिरूपस्वभावस्याथवाऽधिकृत (वस्त्ररागादि) एककार्यगतस्वभावस्य स्वरूपं, यथा सामस्त्येन हेतुभूतस्वभावं वा कार्यगतस्वभावमाश्रित्य-निमित्तीकृत्य-अपेक्ष्योत्पद्यते, तादृश्या रीत्या प्रथम वस्त्ररागादिरूपं कार्य सामग्र्येण ( समग्रत्वेन ) हेतुभूतवस्तुगतरूपरसादिरूपस्वभावमपेक्ष्योत्पद्यते,
पूर्वपक्षः यथा स्वहेतुतो वस्तुगतरूपरसादिरूपस्वभावतः प्रथमं कार्य वस्त्ररागादि जायते तथा तस्मादेव वस्तुगतरूपरसादिस्वभावभूतस्वहेतुत एव द्वितीयकार्यस्य (स्वग्राहकप्रत्यक्षादिकस्य) को विरोधः १ ततो द्वितीयं कार्य भवतु.
281