________________
ललितविस्तरासटीका
पूर्वपक्षः अस्मदीयैतादृशी मान्यताऽस्ति, यत्, एकोऽप्येतादृशो वस्तुस्वभावोऽस्ति, अनेक कार्यकरणस्वभाववानस्ति. एतादृशी-विशिष्टकल्पनया कानिचित् कार्याणि कारणरहितानि भविष्यन्ति, ईदृशी, आपत्ति नास्माकमागमिष्यति. यत एकवस्तुस्वभाव एवैतादृशोऽस्ति यदनेक-कार्य-करणे उपयोगो-व्यापार-कर्ता, भवत्येवेति.
उत्तरपक्षः एषा मान्यता तु अस्मन्मतानुसारिण्येव न कश्चिद् भेदो दृश्यते, यथाहि= (१) अस्मदीया मान्यता-जैनमतमस्ति. . 'एकमनेकस्वभावं' (एकं वस्तु, नानास्वभावावच्छिन्नं)
(२) युष्मदीयमान्यता ‘एकोपिवस्तुस्वभावोपिनेककार्यकरणस्वभावः' ततो न केषाश्चिदहेतुकत्वमित्येषा कल्पना 'शब्दान्तरेण ' अस्मदभ्युपगमादेकमनेकस्वभावमित्यस्माच्छब्दान्तरेण 'एकमनेककार्यकरणस्भावमेवंलक्षणेन “ एतदभ्युपगमानुपातिन्येव " एकमने कस्वभावमित्यस्मन्मतानुसारिण्येव, न कस्मात्कथञ्चित् स्वभावभेदमन्तरेणानेकफलोदय इति प्राक् चर्चितमेव.
निरूपितमेतदन्यत्र, यतःस्वभावतो जातमेकं नान्यत्ततो भवेत् । कृत्स्नं प्रतीत्य तं भूतिभावत्वात्तत्स्वरूपवत् ॥ १॥ अन्यच्चैवंविधं चेति, यदि स्यात्किं विरुध्यते ? । तत्स्वभावस्य कात्स्न्ये न, हेतुत्वं प्रथमं प्रति' ॥२॥
( निरूपितम् एतद् ' अनन्तरोक्तं 'अन्यत्र ' अनेकान्तजयपताकायां यथानिरूपितं तथैवाह-' यस्मात् ' वस्तुगतरूपरसादिरूपादुपादानादुत्पन्नं एकं कार्य वस्त्ररागादि, 'नान्यत् ' द्वितीयं स्वग्राहकप्रत्यक्षादिकं सहकारिभावेन 'ततो' वस्तुस्वभावात् 'भवेत् ' जायेत, हेतुमाहसमस्तमाश्रित्य वस्तुस्वभावं भवनस्वभावत्वात्, आद्यस्यैव कार्यस्य दृष्टान्तमाह-तत्स्वरूपवत् यथास्वभावस्य हेतुभूतस्याधिकृतककार्यगतस्वभावस्य वा स्वरूपं स्वभावकायाश्रयेणैव भवति, तथा कथमपि कार्यमिति पराभिप्रायमाशंक्याह-'अन्यच्च' द्वितीयं च कार्यमिति गम्यते, "एवंविधं' तरतुजन्यं च 'इति' एतद् 'यविस्याद्' यदि भवेत् किं विरुध्यते ! न किञ्चित् , तदपि भवस्विति भावः, अत्रोत्तरं 'तत्स्वभावस्य ' वस्तुपतरूपरसादिरूपस्य 'कात्स्येन' सर्वात्मना 'हेतुत्वं' निमित्तत्वं 'प्रथमं प्रति' आदिकार्यमाश्रित्य विरुध्यते, इदमुक्तं भवतिसर्वात्मनोपयुक्तत्वादाचकायें एव कुतस्ततः कार्यान्तरसम्भवः, तत्सम्भवे च न प्रथमकार्य तस्य कात्स्न्यपि योगः, इति बलादनेकरूपवस्तुसिद्धिरिति.)
280