________________
ललितविस्तरासटीका पितवासनानिमित्तस्वभावताऽस्ति, सैव पुत्रवासनानिमित्तस्वभावता नास्ति, पितृवासनानिमित्त स्वभावताभिन्नाऽस्ति, च पुत्रवासनानिमित्तस्वभावता भिन्नाऽस्ति, यदि स्वभावभेदस्य सर्वथाऽस्वीकारेण पितृवासनानिमित्तस्वभावतैव वस्तुनि पुत्रवासनानिमित्तस्वभावतारूपैव, अर्थात् सर्वथा वासनानिमित्तस्वभावताया एकरूपत्वे नीलरूपवस्तुनिस्थित-नीलवासनानिमित्त-स्वभावतैव पीतादिवासनानिमित्तस्वभावतारूपा भविष्यति, एषाऽऽपत्तिरनिष्टापत्ति युष्माकम् ।
भावनीयमेतद् यदुत 'एकमेव वस्तु विचित्रवासनावशेन विचित्रव्यवहारहेतुरिति न भवतीत्यर्थः, अन्यथा-विचित्रवासनाऽधीनेनैकवस्तुनैव विचित्रव्यवहारस्य प्रवृत्तिस्वीकारे तत एव-एकवस्तुत एव सर्वव्यवहार-सिद्धेः, किं जगद्-वैचित्र्याऽभ्युपगमेन ? प्रकृतसिद्धिमाह‘एवं' उक्तनीत्या, उभयथापि-प्रकारद्वयेनाऽपि तदेवाह
पूर्वपक्षः उपादानकारणभेदेन च निमित्तकारणभेदेन सर्वथैकस्वभावेनैकवस्तुहेतुतः, अनेक कार्योत्पत्तिस्वीकारे न कश्चिद्बाधः, यतः, अस्मन्मतः कारणविभागक्रम ईदृशोऽस्ति तथाहि (१) रूपविषयकज्ञानजनकसामग्री, एवं रूपाऽस्ति, अ-रूपं, आ-आलोकः-प्रकाशः इ-मनस्कारः (कृ+ मनसःकारो व्यापारभेदः- मनसः सुखतत्परतेत्यर्थो न ग्राह्यः परन्तु परिभाषितपूर्वक्षणरूपवासना, मनस्कारोऽर्थी ग्राह्यः )
ई-चक्षुरिन्द्रियमिति चत्वारि रूपविषयकज्ञाने कारणानि तेषु (१) पूर्वज्ञानक्षणरूपमनस्कार एष रूपविज्ञानजनने उपादानकारणं च शेषरूपादीनि त्रीणि निमित्तकारणानि तथैव रूपालोकचक्षुषां अपि स्वस्वपूर्वक्षणाः स्वस्वकार्यजनने, उपादानकारणमपि शेषमयं निमित्तकारणं एवं एकस्वभाववदेकवस्तुना, भिन्नभिन्नोपादानहेतुभिश्च, भिन्नभिन्नसहकारि-कारणरूपनिमित्तकारणानां साहाय्येनानेककार्योदयः (उत्पत्तिः) सर्वसामग्रीषु योज्य इति वास्तविकमस्ति यस्मादेकस्वभावैकवस्तुना, अनेकविचित्रव्यवहारोत्पत्तिः समीचीना घटते, अतो भवदत्तापत्तिरस्माकं न लगिष्यति.
उत्तरपक्षा-उपादानभेदेन च निमित्तभेदेन सर्वथा (एकान्तेन) एकस्वभावेनैकवस्तुनैहिक पारलौकिकानेक-फलोत्पत्ति न भवत्येवेति नियमोऽस्ति, यदि नियममेनं न स्वीकुर्यादर्थादेकवस्तुतोऽनेककार्योत्पत्तिप्रतिपत्तौ तदा विना कारणं कार्याणि भवेयुराकस्मिककार्योत्पत्त्यापत्तिरागमिष्यति, सारांश एवंविधोऽस्ति, एकं मुख्य कार्य विना, सर्वाणि कार्याणि कारणं विना (अकस्मात् ) भविष्यन्ति, यत एकहेतुस्वभावस्य एक-फलकायें एवोपयोग एव भवति ततोऽन्यकार्ये उपयोग-व्यापारस्याभावोऽस्ति.
279