________________
ललितविस्तरासटीका तद्देवदत्तं प्रति पितृपुत्रादित्वेन व्यवस्थितानामनेकेषां या एषा पुत्रादिवासना प्रवृत्तिरस्ति, सा पुत्रादिवासनां प्रति तेषामनेकेषां स्वसन्तानगतमनस्काररूपोपादानकारणभेदमूलकारणवती, अस्ति, परंतु व्यवहारविषयवस्तुस्वभावभेदनिमित्तजन्या नेति. (अत्र मनस्कारोऽर्थात्पूर्वज्ञानक्षणरूपो ज्ञेयः)
उत्तरपक्षः एतदपि-अनुत्तरमेव, यथार्थोत्तराभाववत्वात् , यतः एकव्यक्तिरूपदेवदत्ते पितृपुत्रादिरूपव्यवहारकारकाणां (पित्रादित्वेन भाषकाणां ) अनेकेपा निमित्तस्य-सहकारिभावस्याभावो वर्तते, ( स्वभिन्नत्वे सति स्वकार्यकारित्वम् , सहकारित्वम् , यथा दण्डस्य मृत्तिक्काकार्यघटकारित्वम्) व्यवहारकारका अनेके ते, एकसहकारिरूपपुरुषविशेषं देवदत्तमासाद्य, उपादानभेदे सत्यपि तथा सर्ववासनावन्तो भवन्ति, ( पित्रादिसर्ववासनावन्तो ) तदेतत्कथनमयुक्तं यतः, सहकारिविशेष-एक-व्यक्तौ अनेकव्यवहारकारकाः पुत्रादेरनुकूलयोग्या (अनुरूप-प्रयोजक यावत्योवासना अथवा यावन्तो व्यवहारकर्तारःस्युः तावतां तावतीनां वा स्वभावस्य शून्यत्वेनानेकेषां सहकारित्वं न घटत इति.
पूर्वपक्षः प्रत्यक्षतो दृश्यते, एकस्मिन्नविभागवति (निरंशे-निरन्वये) देवदत्ते सहकारिणि स्वोपादानभेदादनेक (पुत्रादि) वासनाप्रवृत्तिः प्रत्यक्षतो दृश्यतेऽत एकस्मिन्ननेकेषां सहकारित्वं सिद्धं कथं न ?
उत्तरपक्षः व्यवहारघटनायाः क्रम एतादृशोऽस्ति यत्, येन प्रकारेण वस्तुनोऽभ्युपगमो (निश्चयविशेषो वा प्रतिपत्तिः) भवति, तेन प्रकारेण वस्तुनो दर्शनं-प्रत्यक्षज्ञानं भवेत्तदा तथादर्शनेनैव व्यवहारस्य घटना समीचीना भवति,
प्रस्तुतवासनाभेदं प्रति प्रत्यक्षज्ञानरूपदर्शनस्य विरोधोऽस्ति यतोऽभ्युपगमे विचारस्य योजनाऽस्ति, विचारयितुमभ्युपगम एव युक्त उपयुक्तोऽस्ति.
___दर्शनं न, यतःसोऽपि, अभ्युपगमोऽपि-अपि शब्दाद् दर्शनं च एवम्-एकस्यानेकसहकारित्वाऽभ्युपगमे न विरुध्यते इति नापितु विरुध्यत एवार्थात्-एकस्मिन्नेकसहकारितायाः प्रतिपत्ति प्रति अभ्युपगमश्च दर्शनं च विरोधिनौ. कथमित्याह-'तदेकस्वभावत्वेन' व्यवहियमाणवस्तुनो निरंशैकस्वभावत्वेन 'विरोधात्' निराकरणात्, अनेकसहकारित्वाभ्युपगमस्य तस्यानेकस्वभावाऽपेक्षित्वात् , अथानेकान्तेऽप्येकान्तपक्षदूषणप्रसङ्गपरिहारायाह-नैव 'एकानेकस्वभावे' अनेकान्तरूपे विरोध एवेत्यपिशब्दार्थः 'अयमिति ' कुत इत्याह-' तथादर्शनोपपत्तेः । यथा वस्त्वभ्युपगतं तथादर्शनेन व्यवहारस्योपपत्तेः घटनात् , उपपत्ति:-नियमः=एकानेकस्वभावे वस्तुनि
278