________________
ललितविस्तरासटीका एकोऽपि वस्तुस्वभावोऽनेककार्यकरणस्वभावः, ततो न केषाश्चिदहेतुकत्वमित्येषा पुनः कल्पना "शब्दान्तरेण" अस्मदभ्युपगमादेकमनेकस्वभावमित्यस्माच्छब्दान्तरेण, एकमनेककार्यकरणम्वभावमेवलक्षणेन “एतदभ्युपगमानुपातिन्येव" एकमनेकस्वभावमित्यस्मन्मतानुसारिण्येव, न ह्येकस्मात् कथश्चित्स्वभावभेदमन्तरेणानेकफलोदय इति प्राक् चर्चितमेव,
टी०....युक्त्यनुपपत्तिभावना-नीलवासनायाः सकाशात् , पीतरक्तादि-वासनावत् पित्रादिवासनामपेक्ष्य 'न भिन्ना' न पृथक्, पुत्रादिवासना किन्तु भिन्नैवेति 'इति' एतन्निरूपणीयं सूक्ष्माभोगेन यथा नीलादि दृष्टं सन्नीलादिस्ववासनामेव करोति, न भिन्नां पीतादिवासनामपि, तथैकस्वभावं वस्तु पित्रादिवासनामेकामेव कुर्यात् , न तद्व्यतिरिक्तामन्यां पुत्रादिवासनामपीति, पुनराशङ्कापरिहारायाह
पूर्वपक्ष: नैव 'उपादानभेदोऽपि' न केवलं व्यवहरणीयपित्रादिनिमित्तो वासनाभेदः, किन्तु व्यवहारकोपादानकारणविशेषोऽपि वासनाभेदहेतुः 'अत्र' एकस्वभावे वस्तुनि, अनेकव्यवहारसाङ्गत्ये प्रेरिते ‘परिहार:'-उत्तरं, परो हि पुत्रादे वासनाभेदनिमित्तत्वे प्रतिहते सति कदाचिदिदमुत्तरमभिदध्यात् -यदुत येयमेकस्मिन्नपि देवदत्तादावनेकेषां तं प्रति पितृपुत्रादिरूपतया व्यवस्थितानां या पुत्रादिवासनाप्रवृत्तिः सा तेषामेव सन्तानगतमनस्कारलक्षणोपादानकारणभेद निवन्धना न व्यवहियमाणवस्तुस्वभावभेदनिमित्तेति,
एतदपि-अनुत्तरमेव.
उत्तरपक्षः यथा नीलविषयक-वासनया पीतरक्तादिविषयकवासना भिन्ना नेति नापितु, भिन्नैव, तथा पित्रादिवासनया पुत्रादिवासना, सर्वथा भिन्नैवेति सूक्ष्मोपयोगेन निरूपणीयम् , तथा च यथा दृष्टं नीलादिवस्तु, नीलादिस्ववासनामेव करोति, सर्वथा तद्भिन्नां पीतादिवासनामपि न करोत्येव, तथैकस्वभावं वस्तु, पित्रादिवस्तु, पित्रादिरूपैकवासनां करोति, सर्वथा भिन्नां पुत्रादिवासनां न करोति, तदा पुरुषरूपैकवस्तुतो विचित्रवासनानामभावे सति पुरुषे पित्रादिव्यवहारस्यासंभवः स्यादतो, वयं ब्रमो युष्मन्मते पित्रादिव्यवहारो यः सकललोकसिद्धोऽस्ति, स युक्त्या न घटते..
__ पूर्वपक्ष: वासनामेदं प्रति व्यवहारविषयपित्रादिः केवलं निमितं नास्ति परन्तु वासनाभेदं प्रति व्यवहारकर्तहात्मरूपोपादानकारणविशेषो हेतुरस्ति, अर्थात्, एकस्वभावबति बस्तुनि, अनेकव्यवहारस्याऽसङ्गतिरूपदोषस्य परिहारो भवति तथाहि-वासनामेदं प्रति पुत्रादे निमित्तत्वे खण्डिते सति परो वादी-एतदुत्तरं दद्याद् यद्, एकव्यक्तिरूपदेवदसं विषयीकृत्य
277