________________
ललितविस्तरासटीका
"एकस्य" देवदत्तादेः “अनेकनिमित्तत्वोयोगाद्" अनेकेषां-पितृपुत्रादिव्यवहर्तृणां सहकारिभावायोगात् , ते हितमेकं सहकारिणमासाद्य, उपादानभेदेऽपि तथा सर्ववासनावन्तो भवन्ति, न च तस्य तदनुगुणतावत्स्वभावदरिद्रस्यानेकसहकारित्वं युक्तम् , अथ स्यात् 'न हि दृष्टेऽनुपपन्नं नाम' दृश्यते हि एकस्मिन्नविभागवति सहकारिणि स्वोपादानभेदादनेकवासनाप्रवृत्तिः, एतत्परिहारायाह-"न" नैव “दर्शनादेव" प्रत्यक्षज्ञानरूपात् केवलाद् , अविरोधः प्रस्तुतवासनाभेदस्येति, कुत इत्याह-"अभ्युपगमे विचारोपपत्तेः" अभ्युपगमो हि विचारयितुमुपपन्नो न दर्शन, यद्येवं ततः किमित्याह-"नं च" नैव 'सोऽपि अभ्युपगमः, अपिशब्दाद्दर्शनं च, "एवम्” एकस्यानेकसहकारित्वाभ्युपगमे न विरुध्यत एव, किन्तु विरुध्यत एव, कथमित्याह"तदेकस्वभावत्वेन" व्यवहियमाणवस्तुनो निरंशैकस्वभावत्वेन “विरोधात्” निराकरणाद् , अनेकसहकारित्वाभ्युपगमस्य तस्यानेकस्वभावापेक्षित्वात् , अथानेकान्तेऽप्येकान्तपक्षदूषणप्रसङ्गपरिहारायाह-"न च” नैव "एकानेकस्वभावे" अनेकान्तरूपे विरोध एवेत्यपिशब्दार्थः, "अयमिति" व्यवहारविरोध इति, कुत इत्याह-"तथा दर्शनोपपत्तेः' यथा वस्त्वभ्युपगतं तथा दर्शनेन व्यवहारस्योपपत्तेः-घटनात्, तामेवाह-न हि पितृवासनानिमित्तस्वभावत्वमेव, एकानेकस्वभावे वस्तुनि, पुत्रवासनानिमित्तस्वभावत्वं, स्वभाववैचित्र्यदारियाद् विपक्षे बाधामाह-"नीलपीतादावपि" विषये "तद्भावापत्तेः" नीलवासनानिमित्तस्वभावत्वमेव पीतादिवासनानिमित्तस्वभावत्वमित्यादावापत्तेरिति, "भावनीयं" परिभावनीयमेतत् यदुत-एकमेव वस्तु विचित्रवासनावशेन विचित्रव्यवहारप्रवृत्तिहेतुरिति न भवतीत्यर्थः, अन्यथा तत एव सर्वव्यवहारसिद्धेः किं जगद्वैचित्र्याभ्युपगमेन १ प्रकृतसिद्धिमाह-"एवम्” उक्तनीत्या उभयथापि प्रकारद्वयेनापि तदेवाह
"उपादाननिमित्तभेदेन" उपादानभेदेन निमित्तभेदेन च 'न' नैव "सर्वथैकस्वभावतः" एकान्तकस्वभावात् , “एकतः" एकस्माद्धेतोः “अनेकफलोदयः” अनेकस्य-ऐहिकामुष्मिकरूपस्य फलस्य-कार्यस्य प्रसवः, यथा परैः परिकल्प्यते, तेषां हि किल रूपालोकमनस्कारचक्षुर्लक्षणा रूपविज्ञानजननसामग्री, यथोक्तम्-"रुपालोकमनस्कारचक्षुर्यः सम्प्रवर्तते । विज्ञानं मणिसूर्यशुगो(श)सकृद्भ्य इवानलः ॥१॥” इति, अत्र च रूपविज्ञानजनने प्राच्यज्ञानक्षणलक्षणो मनस्कार उपादानहेतुरिति, शेषाश्च रूपादित्रितयक्षणा निमित्तहेतवः, एवं रूपालोकचक्षुषामपि स्वस्वप्राच्यक्षणाः स्वस्वकार्यजनने उपादानहेतवः, शेषं त्रितयं च निमित्तहेतुरिति, एवमेकस्मादेकस्वभावादेकवस्तुनोऽन्येनान्येनोपादानहेतुनाऽन्यैश्चान्यैश्च निमित्तहेतुभिः सहायैरनेककार्योदयः सर्वसामग्रीषु योज्य इति, एतन्निषेधानभ्युपगमे बाधकमाह-"केषामित्यादि" एकतोऽनेकफलोदये "केषाञ्चित्” फलानाम् 'अहेतुकत्वोपपत्तेः निर्हेतुकत्वोपपत्तेः, कथमित्याह
"एकस्य” हेतुस्वभावस्य एकत्र फले "उपयोगेन” व्यापारेण "अपरत्र" फलान्तरे, अभावात , उपयोगस्य, आशङ्कान्तरपरिहारायाह-"अनेककार्यकरणकस्वभावत्वकल्पना तु"
276