SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ नहि नीलबासनाया ललितविस्तरासटीका नहि नीलवासनायाः पीतादिवत्पित्रादिवासनाया न भिन्ना पुत्रादिवासनेति निरूपणीयं, नोपादानभेदोऽप्यत्र परिहार एकस्यानेकनिमित्तत्वायोगात्, न दर्शनादेवाविरोध इति, अभ्युपगमे विचारोपपत्तेः, न च सोऽप्येवं न विरुध्यत एव, तदेकस्वभावत्वेन विरोधात् , न चैकानेकस्वभावेऽप्ययमिति, तथा दर्शनोपपत्तेरिति, न हि पितृवासनानिमित्तस्वभावत्वमेव पुत्रवासनानिमित्तस्वभावत्वं, नीलपीतादावपि तद्भावापत्तेरिति, परिभावनीयमेतत् , एवं उभयथाऽपि .. उपादाननिमित्तभेदेन न सर्वथैकस्वभावादेकतोऽनेकफलोदयः, केषाञ्चिदहेतुकत्वोपपत्तेः, एकस्यैकत्रोपयोगेनापरत्राभावात् , अनेककार्यकरणैकस्वभावत्वकल्पना तु शब्दान्तरेणैतदभ्युपगमानुपातिन्येव, पं....तामेव भावयति-"न हि नीलवासनायाः" सकाशात् , "पीतादिवत्" पीतरक्तादिवासनावत् "पित्रादिवासनायाः" पित्रादिवासनामपेक्ष्य "न भिन्ना" न पृथक् पुत्रादिवासना किन्तु ! भिन्नैवेति, "इति एतन्निरूपणीयं सूक्ष्माभोगेन, यथा नीलादि दृष्टं सन्नीलादिस्ववासनामेव करोति, न भिन्नां पीतादिवासनामपि, तथैकस्वभावं वस्तु पित्रादि वासनामेकामेव कुर्यात्, न तद्वथतिरिक्तामन्यां पुत्रादिवासनामपीति, पुनराशङ्कापरिहारायाह-"न" नैव "उपादानभेदोऽपि" न केवलं व्यवहरणीयपित्रादिनिमित्तो वासनाभेदः, किन्तु व्यवहारकोपादानकारणविशेषोऽपि वासनाभेदहेतुः “अत्र" एकस्वभावे वस्तुनि अनेकव्यवहारासाङ्गत्ये प्रेरिते “परिहारः" उत्तरं, परो हि पुत्रादेर्वासनाभेदनिमित्तत्वे प्रतिहते सति कदाचिदिदमुत्तरमभिदध्यात् यदुत-येयमेकस्मिन्नपि देवदत्तादावनेकेषां तं प्रति पितृपुत्रादिरूपतया ध्यवस्थितानां या पुत्रादिवासनाप्रवृत्तिः सा तेषामेव स्वसन्तानगतमनस्कारलक्षणोपादानकारणभेदनिबन्धना, न व्यवहियमाणवस्तुस्वभावभेदनिमित्तेति, एतदपि अनुत्तरमेव, कुत इत्याह 275
SR No.022497
Book TitleLalit Vistarakhya Chaitya Stavvrutti
Original Sutra AuthorN/A
AuthorBhadrankarsuri, Vikramsenvijay
PublisherBhuvan Bhandrankar Sahitya Prachar Kendra
Publication Year1991
Total Pages550
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy