________________
ललितविस्तरासटीका
सङ्केताहितविचित्रवासनापरिपाकतः कल्पितकथावत्, असद्विषय एव प्रवर्त्तते. अर्थाद् यदि निरंशैकस्वभाववच्च क्षणविनश्वरस्वभाववद्वस्तु अवलम्ब्य पितृपुत्रादिव्यवहारो मन्येत तदैकपुरुषरूपन्यक्तिविशेषेऽपि स्थिरानेकस्वभावसमर्पक : पितृपुत्रादिव्यवहारो न प्रवर्तितुं शक्यते, परन्तु नियतव्यवहारार्थिकुशलपुरुषेण कल्पना - कृतसङ्केतैराहित - विचित्र वासनापरिपाकतः कल्पितकथाव्यवहारवदसद्विषय एव पितृपुत्रादिव्यवहारो भवेत्, अर्थाद्, अविद्यमानविषयकपितृपुत्रादिव्यवहारवत्त्वेन स पितृपुत्रादिव्यवहारो युष्माकं मते, असंगतं (असद्) भवेदिति.
वस्तुमहत्वं=व्यवहारविषयभृतं वस्तु, केवलं व्यवहारस्यैव मूलबीजं नास्ति, परन्तु वासनाः प्रति मूलकारणं, यदि यस्य व्यवहारो भवति, तद्वस्तुरूपं मूलकारणं न मन्येत च वासना उत्पद्यन्तेऽर्थाद् विना कारणं, आकस्मिक्यो वासना भवन्ति एव मन्येत तदा वासना - नियमाद् नित्यत्वेन विद्यमाना भविष्यन्ति, अथवा नित्यत्वेनाविद्यमानाः स्थास्यन्ति, इत्या - द्यापत्तिरागमिष्यति, सारांशः= एकान्तेनैकव्यवहार विषयवस्तुतोऽनेकरूपपितृपुत्रादिवासना नोत्पद्यन्ते तदा निरंशैकस्वभावे वस्तुनि पितृपुत्रादिव्यवहारस्यासङ्गतिः स्थिरैव, यदि, एकान्तैकरूपव्यवहारविषय भूतवस्तुतोऽनेकरूपपितृपुत्रादिवासना उत्पद्यन्ते इति मान्यतायां कृष्णनीलादिवर्णरूपरूपतो रस-स्पर्शादिविषयकविचित्रवासनोत्पत्तिप्रतिपत्तिरूपापत्तिरागमिष्यति, यतः, एकस्वभावादपि परैर
नेकवासनाभ्युपगमः,
( यद्येवं भवेत्तदा चक्षुषाऽपि रसादिज्ञानमुत्पद्येत, सर्वेन्द्रियैः भिन्नभिन्नैः सर्वविषयकज्ञानं सौकर्येण भवेदित्येवं कदाचिन्न भवति . )
पूर्वपक्ष:- रूपरसादिजातिविभागतो न रूपाद् रसादि वासनाऽऽपत्तिः, यतः, अत्यन्त - भिन्ना रूपजाते रसादिजातिः, कथमिव ततो रसादिवासनाप्रसङ्ग इति,
उत्तरपक्षः = तदप्ययुक्तं यतः, रूपत्वेनाभिन्नजातीयात् रूपविशेषनीलाद, द्रष्टुः पीतरक्तादिसजातीयवासनोत्पत्तिप्रसङ्ग आयात्येव.
पूर्वपक्ष: = तस्य नीलादेस्तत्स्वभावत्वात् - पीतादिवासनानां सजातीयानामप्यजननस्वभावत्वात् नीलादिवासनाया एव जननस्वभावत्वात् न च स्वभाव: पर्यनुयोगार्हः, 'अग्निर्दहति नाकाश कोऽत्र पर्यनुज्यते' इति नीलात् पीतादिवासना जन्मप्रसञ्जनं नैवेति,
उत्तरपक्षः = एतदपि परिहारान्तस्मसत् - असुन्दरं, वाङ्मात्रमेवेदं इति युक्त्यनुपपत्तेः,
274