________________
ललितविस्तरासटोका कारणं 'व्यवहारं प्रति व्यवहर्त्तव्यतावच्छेदप्रकारकं ज्ञानं कारणं' इति न्यायोऽप्यत्र विचारणीयः) अर्थात् तादृशकार्यकारणभावेऽथवा प्रकृतविषये तत्तत्प्रकारिका प्रतीतिरेव प्रमाणम् , यदि समीचीनप्रतीतेरप्रमाणत्वे तर्हि सर्वत्राऽविश्वाससाम्राज्यं व्याप्तं स्यात्, अत एव सत्यप्रतीति प्रमाणं कृत्वा यथा पुरुषव्यक्तौ अनेकधर्मसम्बन्धाः स्थितास्तथा प्रत्येकवस्तुमात्रेऽनेके धर्माः सन्ति सम्बन्धावस्था-प्रकाराः सन्ति) इति मन्तव्यमेव ।
प्रतिपक्षः (बौद्धः) वासनाभेदादेवायम् =व्यवहर्तुर्वासना-(मनस्कार)-वैचित्र्यादेव, (वासनाया, अर्थः सा शाक्यपरिकल्पिता त्रुटितमुक्तावलीकल्पानां परस्परविशकलितानां क्षणानामन्योऽन्यानुस्यूतप्रत्ययजनिका एकसूत्रस्थानीया सन्तानाऽपरपर्याया वासना, वासनेति पूर्वज्ञानजनितामुत्तरज्ञाने शक्तिमाहुः, स्याद्वादमञ्जरी श्लो. १९.)
अन्यच्च बौद्धमतम् -पूर्वचित्तजनिताया चेतनायाः शक्तितो युक्तमन्यचित्तमुत्पद्यते, एतच्चेतनाशक्तिविशिष्टचित्तोत्पादः वासना, एतया वासनया वासक-(पूर्वक्षण) वास्य-(उत्तरक्षण)योः सम्बन्धो भवति, आलयविज्ञानमपि एतद्वासनाया नामान्तरं, यथा पवनेन सागरे तरका उत्तिष्ठन्ति, तथा अहंकारयुक्तचेतनायां (आलयविज्ञाने) आलम्बन-समनंतर-सहकारिअधिपतिप्रत्ययद्वारा, प्रवृत्तिविज्ञानरूपधर्म उत्पद्यते, शब्दादिग्राहक-पूर्वचित्तं 'प्रवृत्तिविज्ञानं' इति कथ्यते, एतत्प्रवृत्तिविज्ञानं शब्द-स्पर्श-रूप-रस-गन्ध-विकल्पविज्ञानस्य भेदेन षोढा शब्दस्पर्शादिग्राहकाणि पंच विज्ञानानि, निर्विकल्पकं (यत्र ज्ञाने विशेषाकाररूप-नानाविध-भिन्नभिन्नपदार्था भासन्ते) विकल्पज्ञानं सविकल्प (यत्र ज्ञाने सर्वपदार्थविज्ञानरूपं प्रतिभासते) कथितमस्ति, एतानि ज्ञानानि बौद्धा 'चित्तत्वेन' कथयन्ति, विज्ञानं चित्तमथवा चैतिकं च शेषाणि रूप-वेदना-संज्ञा-संस्कारस्कन्धान् 'चैत'मिति कथयन्ति, प्रवृत्तिविज्ञानेन सह युगपत् -एककाले भावि-अहंकारयुक्तचेतनां 'आलयविज्ञानं' कथयन्ति, एतदालयविज्ञान-पूर्वक्षणजनितचेतनाशक्तिविशिष्टमुत्तरचित्तमुत्पद्यते, एतदालयविज्ञानं 'वासनेति' कथ्यते,
(पूर्वपक्षः) पितृपुत्रादि-व्यवहारोऽयं दृष्टान्ततयोपन्यस्तः स व्यवहर्तृणां वासनानां वैचित्र्यादेव न पुनश्चित्रकस्वभावावस्तुनः,
(उत्तरपक्षः) तदसङ्गतमेव, ते हि निरंशैकस्वभाव प्रतिक्षणभङ्गवृत्ति वस्तु प्रतिपन्ना इति. न तदालम्बनोऽयं-निरंशैकवस्तुस्वभावालम्बनप्रवृत्तौ, पितृपुत्रादिव्यवहारो, अयमेकस्मिन्नपि स्थिरानेक-स्वभावसमर्पक-पितृपुत्रादिव्यवहारो न प्रवर्तते किन्तु प्रतिनियतव्यवहाहार्थिकुशलकल्पित
३५
273