________________
ललितविस्तरासटीका
रसादिवासनापत्ते., जातिभेदतो नैतदित्यप्ययुक्तं नीलात्पीतादिवासनाप्रसङ्गात् , तत्तत्स्वभावत्वान्नैतदित्यप्यसत्, वाङ्मात्रत्वेन युक्त्यनुपपत्तेः,
५०...."रसादिवासनापत्तेः” रसस्पर्शादिविचित्रवासनापत्तः, एकस्वभावादपि परैरनेकवासनाभ्युपगमात्, परिहारान्तरमाशङ्कयाह-"जातिभेदतो" रूपरसादिजातिविभागतो “नैतत्" न रूपाद्रसादिवासनापत्तिः, अत्यन्तभिन्ना हि रूपजाते रसादिजातिः, कथमिव ततो रसादिवासनाप्रसङ्ग इति, तदप्ययुक्तं, कुत इत्याह-"नीलाद्" रूपविशेषाद्रूपत्वेनाभिन्नजातीयात् "पीतादिवासनाप्रसङ्गाद्” द्रष्टुः पीतरक्तादिसजातीयवासनाप्रसङ्गात् . परिहारान्तरापोहायाह"तत्तत्स्वभावत्वात्" तस्य-नीलादेस्तत्स्वभावत्वात् -पीतादिवासनानां सजातीयानामप्यजननस्वभावत्वात् , नीलादिवासनाया एव जननस्वभावत्वात्, न च स्वभावः पर्यनुयोगार्हः, 'अग्निदहति नाकाश, कोऽत्र पर्यनुयुज्यते' इति, "न नैव” “एतत्” नीलात्पीतादिवासनाजन्मप्रसञ्जनम् "इति” एतदपि परिहारान्तरमसत् -असुन्दरं, कुत इत्याह-“वाङ्मात्रत्वेन" वाङमात्रमेवेदमिति युक्त्यनुपपत्तेः,
टी.....'सकललोकसिद्धश्च' =सकललोके सिद्धः-प्रसिद्धः, यता, अविगानेनाऽविरोधेन प्रवृत्तिवर्तते, तथाहि-'इह' जगति. पित्रादिव्यवहार:-पितृपुत्रादिरूपतथाविधाभिधान-शब्दनिमित्त प्रवृत्तिरूपः, भिन्नश्च-पृथक् मिथः-परस्परं अन्यो हि पितृव्यवहारोऽन्यश्च पुत्रादीनां यतः, तथामिथो भिन्नतया, प्रतीतेः सर्वत्र सर्वदा सर्वैः प्रत्ययात् , तस्य-पित्रादितया व्यवहरणीयस्य तत्त्वं -पित्रादिरूपत्वं निबन्धनं यस्य स तथा, तत्तत्त्वनिबन्धनः, अर्थात् , जगतीह पुरुषमेकमाश्रित्य पितृपुत्रादिव्यवहारः-अपेक्षाभेदकृतः शब्दप्रयोगः, अविगानेन-अविरोधेन प्रवर्त्तमानोऽविरुद्धोऽबाधितो दृष्टेष्टप्रमाणतः सिद्धः-प्रसिद्धोऽस्ति, किञ्च स पितृपुत्रादिव्यवहारो मिथः-परस्परं भिन्नोऽस्ति-भेदवानस्ति, यदपेक्षया पिताऽस्ति, तदपेक्षया पुत्रो नास्ति, अपेक्षाणां भिन्नत्वेन पितृपुत्रादिव्यवहारः, परस्परं भिन्नोऽस्ति, पितृप्रभृतिव्यवहारो भिन्नोऽस्ति (भिन्नापेक्षावान्) यतस्तादृशी परस्परं भिन्ना, पित्रादिव्यवहारस्य प्रतीतिरेव प्रमाणम् , सर्वत्र स्थले सदा सर्वलोकानां परस्परभेदप्रकारिका तथा प्रतीतिर्भवति. पित्रादितया व्यवहरणीयस्यैक पुरुषस्य तत्त्वं-पित्रादिरूपत्वं मूलकारणं पित्रादिव्यवहारस्याऽस्ति, पित्रादिव्यवहारं प्रति पित्रादित्वेन व्यवहरणीयपुरुषनिष्ठपित्रादिरूपत्वं निवन्धनं कारणमस्ति, (एवं च व्यवहार्य पुरुषपितृत्वपुत्रत्वादिः, नानाधर्मसम्बन्धाऽवच्छिन्नोऽस्ति, अर्थात् पित्रादिव्यवहारं प्रति पितृत्वपुत्रत्वादि-नानाधर्मविशिष्टज्ञानं
272