________________
ललितविस्तरासटीका युगपत् कथ्यन्ते, शब्दतो यः कथ्यते स तत्तु क्रमत एव कथ्यते, अर्थाद् द्रव्यक्षेत्रादि-प्रत्येकप्रकारैरवक्तव्यधर्मतश्चान्य-द्रव्यतो व्यावृत्तत्वेन अवक्तव्याः परधर्मा अप्यनन्ताः सन्ति, एवं यथैकघटस्यानन्तधर्मत्वं दर्शितं तथाऽऽत्मादिसर्ववस्तुषु, अपि सङ्गमनीयं (सम्यग्घटनीयम् ) ,
धर्मास्तू त्पद्यन्ते पर्यायवशात् , पर्यायवशाद् व्ययन्ते, तथापि यो धर्मी, स द्रव्यरूपत्वात्वान्नित्यस्तिष्ठति, धर्मधर्मिणोः कथंचिदभेदेन धर्मी सदा सत्त्वावच्छिन्नोऽस्ति, कालत्रयवर्तिनो ये धर्मास्तेऽपि शक्तिरूपेण सदा सद्रूपा एवेति
घटस्यैकानेकस्वभावत्वरूपहेतोः सिद्धयर्थं कथयति. सकललोकसिद्धश्चेह पित्रादिव्यवहारः, भिन्नश्च मिथः, तथा प्रतीतेः, तत्तत्त्वनिबन्धनश्च,
___ अत एव हेतोः, वासनाभेदादेवायमित्ययुक्तं, तासामपि तन्निबन्धनत्वात्, नैकस्वभावादेव ततस्ता इतिरूपात्,
पं०..."सकललोकसिद्धश्च" अविगानप्रवृत्तेः "इह" जगति "पित्रादिव्यवहारः" तथाविधामिधानप्रत्ययप्रवृत्तिरूपो “मिन्नश्च" पृथक् “मिथः" परस्परम् , अन्यो हि पितृव्यवहारोऽन्यश्च पुत्रादीनां, कुत इत्याह-"तथा" मिथो भिन्नतया "प्रतीतेः” सर्वत्र सर्वदा सर्वैः प्रत्ययात् "तत्तत्त्वनिबन्धनश्च" तस्य-पित्रादितया व्यवहरणीयस्य तत्त्व-पित्रादिरूपत्वं निबन्धनं यस्य स तथा, चकार उक्तसमुच्चये, एतदपि कुत इत्याह
"अत एव" तथाप्रतीतेरेव हेतोः, न च सम्यक्प्रतीतिरप्रमाणं, सर्वत्रानाश्वासप्रसङ्गाद्, अत्रैव पराकूतं निरस्यन्नाह-“वासनाभेदादेव” व्यवहर्तृवासनावैचित्र्यादेव, न पुनश्चित्रकस्वभावाद्वस्तुनः "अयं" पितृपुत्रादिव्यवहारो दृष्टान्ततयोपन्यस्त "इति” एतत्सुगतशिष्यमतम् "अयुक्तम्" असङ्गतं, ते हि निरंशकस्वभावं प्रतिक्षणभङ्गवृत्ति वस्तु प्रतिपन्ना इति न तदालम्बनोऽयमेकस्मिन्नपि स्थिरानेकस्वभावसमर्पकः पितृपुत्रादिव्यवहारः, किन्तु प्रतिनियतव्यवहारार्थिकुशलकल्पितसङ्केताहितविचित्रवासनापरिपाकतः कल्पितकथाप्यवहारवद् असद्विषय एव प्रवर्तत इति, कुतोऽयुक्तत्व मित्याह-"तासामपि" वासनानां न केवल व्यवहारस्य, "तन्निबन्धनत्वाद्" व्यवहियमाणवस्तुनिबन्धनत्वाद्, अतन्निबन्धनत्वे 'नित्यं सत्त्वमसत्त्वं वे'त्यादिप्रसङ्गात् , एवमपि किमित्याह"नैकस्वभावादेव" नैकान्तकरूपादेव "ततो" व्यवहारविषयवस्तुनः "ताः” पित्रादिवासना इति, विपर्यये बाधकमाह-"रूपात्" कृष्णनीलादेवर्णात्
271