________________
ललितविस्तरासटीका
परिमाणतोऽपि नानाविधद्रव्याऽपेक्षया तस्य घटस्य अणुत्व-महत्त्व-हस्वत्व-दीर्घत्वाद्या अनंताः स्वधर्मा भवेयुः, अथ स धटः परद्रव्यतो व्यावृत्तोऽस्ति, अतो ये परपर्यायाः सन्ति ते स्वद्रव्यतो भिन्ना ज्ञेयाः,
परत्वापरत्वतः मिथोऽनन्तद्रव्यापेक्षया तस्य घटस्य समीपता-अधिकसमीपता-बहुसमीपतादूरता-बहुदूरता, एक-द्वित-आरभ्या-संख्यातपर्यन्तयोजनप्रमाणा दूरता समीपता वा भवेदर्थात् स्वपर्याया अनन्ता भवेयुः, अथवा परद्रव्यपेक्षया स पूर्वदिशि, तस्मादन्यापेक्षया पश्चिमदिशि, एवं दिविदिगपेक्षया दूरसमीपादिमान्यतायां स्वपर्याया अनन्ताः स्युः,
ज्ञानतोऽपीशरीत्या अनन्तधर्माऽऽत्मकत्वं घटस्य ज्ञेयम् , कर्मतोऽपि-उत्क्षेपण-क्षेपणाकुञ्चनप्रसारणभ्रमण-स्पन्दन-रेचन-पूरण-चलन-कम्पन-अन्यस्थानप्रापण – जलाहरण – जलादि प्रापणमित्यादि-क्रियायाः कालभेदेन वा तस्य न्यूनाधिक्यतः अनन्तक्रियाया हेतुरूपेण घटस्य क्रियारूपाः स्वपर्याया भवन्ति, तत्रस्थैक द्वित्रिकादि-अनन्तधर्मः सदृशा अनन्तभेद-भिन्नाः, घटस्यानन्तभेद-सादृश्या भावतः स्वधर्मा अनन्ता भवन्ति, किश्च विशेषतो विचार्यमाणे सति अनन्तद्रव्येषु-अपरापरापेक्षया एकद्वित्रिकादि-अनन्तैरथवा यावद्भिर्धर्मं घंटो विलक्षणो भवेत् तावद्भिः अनन्तै विलक्षणहेतुभि धर्मेरनन्त-स्वधर्मा घटो मन्यते.
___ अनन्त-द्रव्यापेक्षया घटः, स्थूलः कृशः समो विषमः सूक्ष्मो बादरः-तीव्रचाकचिक्यवान-सौम्यः पृथुः सङ्कीर्ण:-उच्चो नीचः, विशालमुखः इत्येवं (प्रत्येकः) घटोऽनन्तप्रकारको भवेदतस्तत्तत्प्रकारैरपि तस्य स्वधर्मा अनन्ताः, अथ सम्बन्धापेक्षया=अनन्तकालावच्छेदेन, अनन्त परवस्तुभिः सह प्रस्तुतो घटः-आधाराधेयरूपसम्बन्धेन अनन्तभेदवान् भवेदतस्तदपेक्षया स्वधर्मा अनन्ता भवेयुः, एवमेव स्वस्वामित्व-जन्यजनकत्व नैमितिकत्व-घोढाकारत्व प्रकाशप्रकाशकत्वभोज्यभोजकत्व-वाह्यवाहकत्व आश्रयायित्व-वध्यवधकत्व-विरोध्यविरोधकत्व-ज्ञेयज्ञायकत्वाद्य'सङ्ख्यातसम्वन्धतः प्रत्येकप्रत्येकानन्ताः स्वधर्माः सिद्धा भवन्ति । किश्चात्र घटस्य स्वपरपर्याया ये-अनन्तानन्ता उक्तास्तेषामपि-उत्पत्तिविनाशस्थितयः पौनः पुन्येनानन्तकालमध्येऽनन्तशो जाता जायन्ते भविष्यन्ति, अतस्तदपेक्षयाऽपि धर्मा अनन्ता भवन्ति, एवं पीतवर्णत आरभ्य एतावत्पर्यन्तं प्रेक्षमाणे भावतोऽनन्ता धर्मा (प्रकृतघटस्य) सिद्धाः,
अत्र ये द्रव्यक्षेत्रादि, आश्रित्य धर्माः कथिताः, तेभ्यो घटस्तु-अवक्तव्यो भवेत्, यत ईदृशः कोऽपि शब्दो नास्ति, यत्, यस्मात्, शब्दाद्, घटस्य स्वधर्माश्च परधर्माः कथ्यमाना
270