________________
ललितविस्तरासटीका स्वपरकालापेक्षया वस्तु सद-सद् वा कालत एतद्युगस्थरूपेण विवक्षितो घटो भवेत्तदा तद्रूपेणाऽस्ति, स तदा भूतभविप्यदादियुगवर्तित्वरूपेण नास्ति, एतस्मिन् युगेऽपि, एतद्द्वर्षसम्बन्धेन सोऽस्ति, अततानागतादिवर्षसम्बन्धेन नास्ति, तत्राऽपि नवत्वरूपेणाऽस्ति, पुराणस्वरूपेण नास्ति, तत्रापि अद्यतनत्वरूपेणाऽस्ति, अनद्यतनत्वरूपेण नास्ति, तथाऽपि, वर्तमान क्षणरूपेणाऽस्ति, अन्यक्षणरूपेण नास्ति, एवं कालतः स्वपर्याया असङ्ख्या (अनन्ता अपि) परपर्यायास्तु अनन्ताः ।
स्वपरभावापेक्षया घटादिः सन्नसन् वा स्यात् =अथ भावेन स घटः पीतवर्णेनाऽस्ति, अन्यनीलादिवर्णेन नास्ति, पीतः सन्नपि, अन्यपीतद्रव्येभ्य एकगुणो पीतोऽस्ति, स ततोऽपि द्वितीयतो द्विगुणः पीतोऽस्ति, तृतीयतः त्रिगुणोऽस्ति, अर्थादेवं मन्तव्यं यत् प्रत्येकपीत-- द्रव्यतः, अपेक्षयाऽनन्तगुणं पीतमस्ति, अन्यापेक्षया-एकगुणहीनः, ततो द्वितीयतो द्विगुणहीन इत्यादिरस्ति, तत एवं मन्तव्यं एकैकापेक्षयाऽनन्तगुणहीनपीतत्ववान् स भवति, एवं पीतत्वतोऽनन्ताः स्वपर्याया जाताः, अपीतवर्णतो द्रव्यस्य न्यूनाधिकत्वं गृहीत्वाऽनन्तभेदवतो नीलादिवर्णतो व्यावृत्तिरूपाः परपर्याया अपि अनन्ताः सन्ति, एवं रसपक्षेऽपि स्वमधुरादिरसापेक्षया पीतत्ववत् स्वपर्याया अनन्ता ज्ञेयाः,
सुरभिगन्धोऽपि एवं स्वपर्याया अनन्ता ज्ञेयाः, एवं गुरुलघुमृदुखरशीतोष्णस्निग्धरूक्षाद्यष्टस्पर्शापेक्षया न्यूनाधिकत्वयोगेन प्रत्येकस्यैवमनन्ताः स्वपरपर्याया ज्ञेयाः, यतः ईशानन्तप्रदेशिनि स्कन्धे अष्टस्पर्शाः प्राप्यन्ते इति सिद्धान्तोऽस्ति,
अथवा सुवर्णे द्रव्येऽपि अनन्तकालतः पंच वर्णाः, गन्धद्वयं षडरसाः, अष्टस्पर्शाः, ते सर्वे न्यूनाधिकत्वाऽपेक्षया, अनंताः सम्भवन्ति, स स तस्य तस्य परवर्णादितो व्यावृत्तो भवति, तत्तदपेक्षया स्वपरपर्याया अनन्ता ज्ञेयाः,
शब्दतोऽपि नानादेशापेक्षया घटादि-अनेक-शब्दवाचकोऽस्ति, ततोऽनेके स्वधर्मा भवन्ति, घटादि ा चक्रादितरेस्तैस्तैः शब्दे व्यावृत्तिर्भवति, परधर्मा अप्यनन्ता भवन्ति, अथवा घटस्य ये ये स्वधर्माः कथिताः, अथवा कथयिष्यन्ते तस्य बाचका ये ये शब्दाः सन्ति, ते सर्वे घटस्य स्वधर्माः सन्ति, तान् विना ये विषयान्तरवाचकाः ते परधर्माः, सत्यातोऽपि तत्तदपरापरद्रव्यापेक्षया घटस्य प्रथमत्व-द्वितीयत्व-तृतीयत्वादि-एवं यावदनन्तमत्वपर्यन्तं भवेदर्थाद् तया रीत्या स्वधर्मा अनन्ताः स्युः, तत्तत्सडख्याया अवाचकैः शब्दो व्यावृत्तिरूपाः परधर्मा अनन्ताः ।
269