________________
ललितविस्तरासटीका
उत्तरपक्षः यदि यत्स्वभावात् प्रथमं कार्यमुत्पद्यते, तत्स्वभावाद् द्वितीय कार्यमुत्पद्येत तदा वस्त्ररागादिरूपं प्रथमकार्य प्रति सामस्त्येन (सर्वात्मना) वस्तुगतरूपरसादिरूपस्वभावस्य हेतु विरुद्धो भवति-प्रतिवन्धको भवति. अर्थात् प्रथमकार्य-एव-वस्त्ररागादिकार्य एव सर्वात्मना हेतुरूपस्वभाव उपयोगी (व्यापारवान्) भवत्यतस्तेन हेतुना कथं द्वितीयं कायं सम्भवेत् ! यदि तेन हेतुना द्वितीयं कार्यमुत्पद्यते इति मान्यतायां तु प्रथमकार्यरूपवस्त्ररागादौ एव तत्स्वभावरूपहेतोः सर्वात्मनोपयोग-व्यापारस्यासम्भवो भवेत् , इति बलादनेकरूपसिद्धिरिति.।
तस्माद् विवेचनपूर्वकं सूक्ष्मेक्षिकया चर्चापूर्वक निरुपचरित-( सत्य-प्रधान-पवित्र ) पूर्वकथितसम्पदा सिद्धौ सर्वैरिति व्याख्यातं प्रणिपातदण्डकसूत्रं (व्याख्यावृत्तिसहितं नमोत्थुणं सूत्रं समाप्त ) समाप्तमिति ॥
. तदेतदसौ साधुः श्रावको वा यथोदितं पठन् पञ्चाङ्गप्रणिपातं करोति, भूयश्च पादपुञ्छनादिनिषण्णो यथाभावं स्थानवालम्बनगतचित्तः सर्वसाराणि यथाभूतान्यसाधारणगुणसङ्गतानि भगवतां दुष्टालङ्कारविरहेण प्रकृष्टशब्दानि भाववृद्धयेऽपरयोगव्याघातवर्जनेन परिशुद्धामापादयन्योगवृद्धिमन्येषां सद्विधानतः सर्वज्ञप्रणोतप्रवचनोन्नतिकराणि भावसारं परिशुद्धगम्भीरेण ध्वनिना सुनिभृताङ्गः सम्यगनभिभवन् गुरुध्वनि, तत्प्रवेशात्, अगणयन् दंशमशकादीन् देहे योगमुद्रया रागादिविषपरममन्त्ररूपाणि महास्तोत्राणि पठति, एतानि च तुल्यान्येव प्रायशः, अन्यथा योगव्याघातः, तदज्ञस्य तदपरश्रवणं, एवमेव शुभचित्तलाभः,
तयाघातोऽन्यथेति योगाचार्याः, योगसिद्धिरेव, अत्र ज्ञापकं, द्विविधमुक्तं-शब्दोक्तमर्थोक्तं च, तदेतदर्थोक्तं वर्तते, शुभचित्तलाभार्थत्वाद्वन्दनाया इति, एवं च सति तन्न किञ्चिद् यदुच्यते परैरुपहासबुद्ध्या प्रस्तुतस्यासारतापादनाय, तद्यथा
282